SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ६२ अर्थप्रकाशसमेता विधाय प्रणवोच्चारणं कृत्वा मात्रावसाने तत्साक्षित्वपरित्यागेन निर्वि कल्पामात्मन्यात्मत्वेन स्थितिं विदधीत । अन्तर्मुखत्वाभावादेतत्कर्तुं न शक्यते चेत्तदा तदुच्चारणेन तद्वाच्यसगुणस्वरूपमनुचिन्तयेत् । यद्वा ज्योतिर्मयं तदेवाक्षरं विचिन्तयेत् । इति प्रणवेनाऽऽत्मन उपासनापरस्य च ब्रह्मणः सगुणस्य परमात्मनः सर्वस्यापि च तस्य सर्वरूपत्वात् । य एतद्वैवाक्षरं ज्ञात्वा तदुपासनायाः प्रचलितो योगभ्रष्टो वा ज्ञानार्थं सगुणब्रह्मोपासकश्च सोऽचिर्मार्गेण गतश्चेत्तस्य परलोकप्राप्तिराब्रह्मलोकं भवति । तत्र स यदिच्छति तस्य तद्भवति संकल्पादेव प्राप्तं भवति । तदेवोक्तं छान्दोग्ये ' स यदि पितृलोककामो भवति संकल्पादेव पितरः समुत्तिष्ठन्ति तेन पितृलोकेन संपन्नो महीयतेऽथ यदि मातृलोककामो भवति संकल्पादेव मातरः समुत्तिष्ठन्ति तेन मातृलोकेन संपन्नो महीयतेऽथ यदि भ्रातृलोककामो भवति संकल्पादेवास्य भ्रातरः समुतिष्ठन्ति तेन भ्रातृलोकेन संपन्नो महीयतेऽथ यदि स्वसृलोककामो भवति संकल्पादेवास्य स्वसार: समुत्तिष्ठन्ति तेन स्वलोकेन संपन्नो महीयतेऽथ यदि सखिलककामो भवति संकल्पादेवास्य सखायः समुत्तिष्ठन्ति तेन सखिलोकेन संपन्न महीयतेऽथ यदि गन्धमाल्यलोककामो भवति संकल्पादेवास्य गन्धमाल्ये समुत्तिष्ठतस्तेन गन्धमाल्यलोकेन संपन्नो महीयतेऽथ यद्यन्नपालोककामो भवति संकल्पादेवास्यान्नपाने समुत्तिष्ठतस्तेनान्नपानलोकेन संपन्नो महीयतेऽथ यदि गीतवादितलोककामो भवति संकल्पादेवास्य गीतवादिते समुत्तिष्ठतस्तेन गीतवादित लोकेन संपन्नो महीयतेऽथ यदि स्त्रीलोककामो भवति संकल्पादेवास्य स्त्रियः समुत्तिष्ठन्ति तेन खीलोकेन संपन्नो महीयतेऽथ यं यं कामो भवति यं यं कामं कामयते सोऽस्य संकल्पादेवास्य समुत्तिष्ठति तेन संपन्नो महीयते ' इति पूर्णद· शाप्राप्तस्य तु ' न प्राणा उत्क्रामन्त्यचैव समवनीयन्ते ब्रह्मैव सन्त्रह्माप्येति ' ॥ १६ ॥ यस्मादेवं तस्मात्— एतदालम्बन श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ १७ ॥ एतदालम्बनमेतस्योंकारस्याऽऽलम्बनमुपास्यत्वेनावलम्बनं श्रेष्ठं सर्वावलम्बनेभ्यः सर्वरूपत्वात् । एतदालम्बनं परं साधनं ब्रह्मात्मज्ञानस्योक्त प्रकारेण व्यतिरेकवृत्त्या सर्वनिरासेन शेषस्याऽऽत्मस्वरूपस्य प्रापकत्वात् ।
SR No.009368
Book TitleIshakenakathopnishad
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnandashram Mudranalay
Publication Year1915
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy