SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ कठोपनिषत् | इति नचिकेतसो वचनमाकर्ण्य मृत्युरुवाचयं यं वरं गूढमनुप्रविष्टो नान्यं तस्मान्नचिकेतो वृणीते ॥ ३० ॥ ४७ हे नचिकेतः पुरुषोऽयं परमुत्कृष्टं गूढं मावमनुप्रविष्टोऽनुप्राप्तस्तस्मादन्यं वरं न वृणीषे । अतः परं तं तुभ्यं ददामि ॥ ३० ॥ इति श्रीमदादिगुरुदत्तात्रेय दिगाम्बरानुचर विरचिते ज्ञानकाण्डे कठवल्ल्युपनिषदर्थप्रकाशे प्रथमा वल्ली व्याख्याता ॥ १ ॥ इति तद्वचनादभिप्रायं विज्ञायायं सच्छिष्य उपदेशार्ह इति मत्वा प्रीतः संस्तदधिकारस्तुत्यर्थं मृत्युरुवाच अन्यच्छ्रेयोऽन्यदुतैव प्रेयस्ते उभे नानार्थे पुरुषं सिनीतः । तयोः श्रेय आददानस्य साधु भवति हीयतेऽर्थाय उ प्रेयो वृणीते ॥ १ ॥ श्रेय उक्तकर्माचरणमन्यदस्ति प्रेयसः । उतेव च प्रेयोऽपि स्त्रीपुत्र वित्तादिपदार्थरूपमन्यच्छ्रेयसः । ते उभे श्रेयः प्रेयसी नानार्थे भोगसाधनभूते पुरुषं सिनीतो बनीतः । तत्र प्रेयोऽहंममत्वयोगेन श्रेयस्तूक्तफलवास नायोगेन । तथाऽपि श्रेय आददानस्य साधु शोभनं भवति । य उ यश्च प्रेयो वृणीते सोऽर्थात्परमार्थाद्भोगसाधनरूपाच्च हीयते व्यज्यते तस्मादहंममत्व परित्यागेन प्रेयो हित्वा श्रेय एवाऽऽचरणीयम् । ननु ते उभे पुरुषं सिनीत इत्युच्यतेऽतः श्रेयसोऽपि त्यागः किं न विधेयः । न तदाचरण - प्रवृत्तिनिमित्तभूता रोचनार्था फलश्रुतिः । अतस्तत्त्यागेन कृतं कर्म मोक्षोपयुक्तमेवास्ति । चेत्तद्वासनायोगेन कृतं तेन प्रेयस उपलब्धिर्न तथा श्रेयः परित्यज्य प्रेयोवलम्बनेन किंचित्प्रयोजनं श्रूयते । तस्मात्तयोः सांसारिकैः श्रेय एवाऽऽदावाचरणीयम् ॥ १ ॥ श्रेयश्व प्रेयश्व मनुष्यमेतस्तौ संपरीत्य विवि.. G
SR No.009368
Book TitleIshakenakathopnishad
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnandashram Mudranalay
Publication Year1915
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy