SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ४४ अर्थप्रकाशसमेता सर्मा मदुपरोधं कार्षीः । अति मा सृजैनमेनं वरप्रार्थनेनोपरुद्धं मा मामतिसृजातिमुञ्च ॥ २१ ॥ इत्येवं प्रत्याख्यानं श्रुत्वा नचिकेता उवाच - देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ । वक्ता चास्य त्वागन्यो न लभ्यो नान्यो वरस्तुल्य एतैश्च कश्चित् ॥ २२ ॥ देवैरप्यत्र विचिकित्सितं किल सत्यं कुतः हे मृत्यो यत्त्वं च न सुज्ञेयमात्थ ब्रवीषि तस्माद्विचिकित्सितमेव सत्यं अस्य च वरस्य वक्ता तादृक्त्वत्समो न लभ्यो नास्त्येव चेदेतं वरमसुविज्ञानं मत्वाऽन्यो वरः प्रार्थनीयस्तर्हि न च कश्चिदन्यो वर एतैरेतेन वरेण तुल्योऽस्ति । अतस्त्वमेव ज्ञाताऽसि तं मे ब्रूहि ॥ २२ ॥ इत्युपरोधं श्रुत्वा पुनर्मृत्युरुवाच - शतायुषः पुत्रपौत्रान्वृणीष्व बहून्पशून्हस्तिहिरण्यमश्वान् । भूमेर्महदायतनं वृणीष्व स्वयं च जीव शरदो यावदिच्छसि ॥ २३ ॥ शतं शतवर्षपर्यन्तमायुर्येषां ताञ्छतायुषः पुत्रपौत्रान्पुत्रान्पोत्रांच वृणीष्व । तथा बहून् पशून्हस्तिहिरण्यं हस्तिनो हिरण्यं च बह्वश्वांश्व बहून्भूमेः संबन्धि महबृहदायतनं स्थानं क्षेत्रादिरूपं वृणीष्व । स्वयं च त्वं च यावज्जीवितुमिच्छसि तावती: शरदो वर्षाणि जीव ॥ २३ ॥ एतत्तुल्यं यदि मन्यसे वरं वृणीष्व वित्तं चिरजीविकां च । महाभूमौ नचिकेतस्त्वमेधि कामानां त्वा कामभाजं करोमि ॥ २४ ॥ यदि त्वमेततुल्यमेतेन वरेण तुल्यमन्यं वरं मन्यसे तर्हि तमन्यं वरं वृणीष्व हे नचिकेतस्त्वं महाभूमौ महत्यां भूमौ स्वर्गरूपायामेधि निवस तंत्र कामानां कामयन्त इति कामास्तेषां कामयितॄणां मध्ये त्वा त्यां काममाजं काममतिशयितं भजति कामभाक्तं करोमि ॥ २४ ॥
SR No.009368
Book TitleIshakenakathopnishad
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnandashram Mudranalay
Publication Year1915
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy