SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ कठोपनिषत् | इति मृत्युपत्तं वरं वृत्त्वा पुनरवृणुत स त्वमस्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् । स्वर्गे लोका अमृतत्वं भजन्त एतद्वितीयेन वृणे वरेण ॥ १३ ॥ हे मृत्यो सखमग्निमग्रणीं सर्वकारणत्वेनाऽऽदिभूतं स्वयं स्वर्गे विषये साधु साधनं यज्ज्ञानादेव विना साधनेन सर्वलोकप्राप्तिरस्ति तमध्येषि स्मरसि जानासीति मया श्रुतमतस्तं स्वर्ग्यमग्निं मे मह्यं श्रद्दधानायानन्यभावेन शरणागताय प्रब्रूहि । येन स्वर्येणाग्निना स्वर्गे ब्रह्मभुवनाख्ये लोकास्तद्रूपविज्ञानिनो जना अमृतत्वं जन्ममरणाभावेनापुनरावृत्त्या मोक्षं भजन्ते प्राप्नुवन्ति तं मेऽग्निं प्रब्रूहि । इत्येतद्दितीयेन वरेण वृणे वृणीय ॥ १३ ॥ इति प्रार्थितः स मृत्युरुवाच ३९ प्र ते ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन् ॥ अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहायाम् ॥ १४ ॥ प्र ते ब्रवीमि प्रब्रवीमि ते तुभ्यमग्निं स्वग्यं तदग्ने रूपमु निश्चयेन में मम वचनान्निबोध जानीहि । हे नचिकेतस्तं त्वया पृष्टं स्वर्ग्यमग्निं प्रजानन्पुमाननन्तलोकाप्तिं न विद्यमानोऽन्तोऽवसानं यस्य तस्य लोकस्याऽऽप्तिं प्राप्तिं तत्र च प्रतिष्ठां विन्दते लभते । त्वमेतमग्निं गुहायां निहितं विद्धि जानीहि । तत्रैव तज्ज्ञानं संभवति न बहिः ॥ १४ ॥ इति प्रतिज्ञाय किं कृतवांस्तदुच्यते लोकातिमत्रिं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ॥ स चापि तत्प्रत्यवदयथोक्तमथास्य मृत्युः पुनराह तुष्टः ॥ १५ ॥ तं लोकाप्तिं स्वर्लोकाप्तिहेतुमग्निं तस्मै नचिकेतस उवाच । तत्र का गुहा कथं तत्रायं प्रतिष्ठितः किं तत्रैव तज्ज्ञानं कथं चेत्तत्रोच्यते । हृत्पुण्डरीकं पुरमध्यसंस्थमिति नवद्वारत्वादिदं शरीरं पुरं तस्यान्तर्यद्धुस्पुण्डरीकम, 'अघोनिक्ष्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति 'सेव गुहा
SR No.009368
Book TitleIshakenakathopnishad
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnandashram Mudranalay
Publication Year1915
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy