SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २८ अर्थप्रकाशसमेतासा । बहुशोभमानां बहु यथा स्यात्तथा शोममानामनुपमा परप्रकृतित्वात् । उमामवति सर्वेषां विज्ञानदानेनाशुभसंसारभयाद्रक्षति सोमा तां हैमवती हिनोति गच्छति हेम प्रज्ञानमेव कारणो. पाधौ तथाऽशत्वेन कार्योपाधावप्यन्तराकाश आश्रयाभिन्नत्वेन स्थितं सत्करणद्वाभिर्बहिर्दीपप्रमेव गतिमत्वाद्धेम यद्वा हिनोति वर्धयति सर्वप्रपञ्च तद्गुणमूलत्वात्तद्विस्तारस्य हेम तद्वान्परमात्मा हेमवांस्तत्संब. न्धिनी तत्प्रकृतिरूपत्वाद्धैमवती तां तत्राऽऽविर्भूतां दृष्ट्वा तामुवाच मघवा किमेतद्यक्षमिति ॥१०॥ एवं पृष्टा सा ब्रह्मेति होवाच । ब्रह्मणो वा एतद्विजये महीयध्वमिति । ततो हैव विदांचकार ब्रह्मेति तस्मादा एते देवा अतितरामिवान्यान्देवान् । यदग्निर्वायुरिन्दस्ते ह्येनन्नेदिष्ठं पस्पशुस्ते ह्येनं प्रथमो विदांचकार ब्रह्मेति । तस्माद्दा इन्द्रो अतितरामिवान्यान्देवान्सन्टेनन्नेदिष्ठं पस्पशुः संह्येनं प्रथमो विदां चकार ब्रह्मेति ॥ ११ ॥ ततः सा ब्रह्मेति होवाच । ब्रह्मणो वा अस्यैतदस्मिन्सर्वोत्कृष्ट नित्ये विजये सत्तारूपे महीयध्वं पूर्वमस्माकमेवायं विजयोऽस्माकमेवायं महिमे तिभावेन संजाताभिमानयोगेन विगतमहिमानो यूयं पुनः स्वकर्मक्षमत्वेन पूज्या यथापूर्वं भवतेति । तद्वचनात्स इन्द्रो विदांचकार विवेद ब्रह्मेति यत्सर्वजगत्कारणमीश्वरूपं तुरीयं तदे. वेदमस्तीति । अत्र तुरीयं नास्त्येवेति केचिद्वदन्ति तन्न तथा न केवलस्य निरुपाधिकस्य ब्रह्मणो रूपावलम्बनेन मावपरीक्षणं संभवति तस्यैव स्वगतचित्प्रकृत्यवलम्बनेन तद्तशुद्धसत्त्वप्राधान्येन सर्व ज्ञसर्वसाक्षित्वयोगेन सर्वमपि घटते सर्वेश्वरत्वात् । अतो देवतावयादिसर्वजगत्कारणं तुरीयमस्त्येवात एव पुराणेषु श्रूयते 'महर्षि णाऽत्रिणा ब्रह्मविदां वरेण सर्वज्ञेन प्रजाकामेन तस्यैवाऽऽराधानं व्यधायि ' इति । 'शरणं तं प्रपद्येऽहं य एव जगदीश्वरः। प्रजामात्मसमां मह्यं प्रयच्छत्वितिचिन्तयन्' इत्यादिभिः। ननु जगदीश्वरत्वं त्रयाणामपि .. भवति नु । सत्यं तथाऽपि तेन ते प्रत्याख्याता इति श्रूयते 'एको मयेह
SR No.009368
Book TitleIshakenakathopnishad
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnandashram Mudranalay
Publication Year1915
Total Pages102
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy