SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाग्यावबूरी उ०६ सू० ३ - १ साधुसाध्वीनां परसारकण्टकादिनिस्सारणविधिः १४९ अथाभ्याख्यानदायको भणति - यन्नाम गृहस्था असंयता अलीकं सत्यं वा ब्रुवते नैतेषां वचनप्रत्ययः, एवं भणतो मूलम् । यदि स भणति गृहस्थाश्च यूयमेकत्र मिलिताः, अहं पुनरेकः कोऽन्यो मम पक्षे इति कथनेऽनवस्थाप्यम् । पुनर्गृहस्थान् भणति - सर्वेऽपि यूयं प्रवचनस्य बाह्याः, इति भणतस्तस्याभ्याख्यानदायकस्य पाराञ्चिकं प्रायश्चितं समापतति । एवमु त्तरोत्तरं विवदतः पाञ्चिकं यावत् प्रायश्चित्तप्रस्तारो भवतीति । एवमेव यदि रात्निकेन सत्यमेव दर्दुरो व्यपरोपितः पृष्टे च भूयो विवादपूर्वकं निहृते तदाऽभ्याख्यानदायकस्यैव तस्याप्युत्तरोत्तरं प्रायश्चित्तवृद्धिः कर्त्तव्या । तत्राभ्याख्यानदायकस्यैक एव मृषावादलक्षणो दोषः किन्तु द्वितीयस्याभ्याख्यातस्य रात्निकस्य तु दर्दुरवधं कृत्वा निह्नुते इति द्वौ दोषौ भवतः, एकः प्राणातिपातजनितो दोषः, द्वितीयो मृषावादजनितश्चति । यदि चाभ्याख्यानदायकोऽवमरात्निकः तथाऽभ्याख्यातो रात्निकच अभ्याख्याने दत्तेऽपि प्राणातिपाते कृतेऽपि च स्वकथनसिद्धयर्थं न विवदति यथार्थ यथायोगं प्रायश्चित्तं गृह्णाति तदा न तयोः प्रायश्चित्तवृद्धिः कर्त्तव्येति । एवमन्ये मृषावादादिप्रस्तारा अपि स्वयं भावनीया इति ॥ सू० २ ॥ अथ निर्ग्रन्थनिर्ग्रन्थीनां ‘परस्परं ' कण्टकाद्युद्धरणप्रभृतिविषये विधिमाह - 'निगंथस्स य' इत्यादि । सूत्रम् - णिग्गंथस्स य अहे पायंसि खाणू वा कंटए वा हीरए वा सक्करे वा परिया वज्जेज्जा तं च णिग्गंथे नो संचाएइ नीहरितए वा विसोहित्तए वा तं णिग्गंथी णीहरमाणी वा विसोमाणी वा णाइक्कमइ || सू० ३॥ छाया - निर्ग्रन्थस्य चाधः पादे स्थाणुर्वा कंटको वा हीरकं वा शर्करं वा पर्यापद्येत तच्च निर्ग्रन्थो नो शक्नुयात् निर्हतुं वा विशोधितुं वा तं निर्ग्रन्थी निर्हरन्ती वा विशोधयन्ती वा नातिक्रामति ॥ सू० ३ ॥ चूर्णी - 'णिग्गंथस्स य' इति निर्ग्रन्थस्य गच्छतः प्रमादादिकारणवशात् अहे पायंसि अघः पादे पादयोः पादस्य वा अधः प्रदेशे पादतले इत्यर्थः खाणु वा स्थाणुर्वा, तत्र कण्टकिस्थाणुर्नाम छिन्नगोधूमादेः क्षेत्र संलग्नमूलस्थितोऽवयवविशेषः कंटए वा कंटको वा वृक्षस्य बर्बुरादेरवयवविशेषः होरए वा हीरक वा, तत्र हीरकं नाम सूचीवत् तीक्ष्णकाष्ठखण्डो वा सक्करे वा शर्करं वा शर्करं नाम पाषणखण्डः, तच्च स्थाण्वादि भिक्षाद्यानेतुं गच्छतः श्रमणस्य पादतले परियावज्जेज्जा पर्यापद्येत प्राप्नुयात् पादे संलग्नं भवेत् चरणः कंटकादिना विद्धो भवेदित्यर्थः तं च णिग्गंथे तच्चपादसंलग्नकण्टकादिकम् निर्ग्रन्थः श्रमणः स्वयमन्यो वा साधुः नो संचाइए नो शक्नुयात् नीहरितए वा विसोहित्तए वा निर्हर्तुं वा विशोधितुं वा कश्चित् श्रमणः कारणवशात् पादतलसंलग्नकण्टकादिकम् निष्कासयितुमुद्धर्तुं वा न शक्नुयात् न समर्थौ भवेदित्यर्थः, अथ यदा स्वयमन्यो वा श्रमणस्तान् कण्टकादीन् समुद्धर्त्तु नो शक्नुयात् तदा तं णिग्गंथी णीहरमाणी वा श्रमणचरणात् संलग्नकण्टकादिकं निर्हरन्ती निष्कासयन्ती
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy