SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ १४२ बृहत्कल्पसूर्य निष्कारणं शरीरसौन्दर्याद्यर्थं सुगन्धिद्रव्यजातेन गात्राणामुपलेपनमुद्वर्त्तनं च मुनीनां न कल्पते, तादृशावस्थायां कारणे सति यतनया कल्पते इति भावः ॥ सू० ५० ॥ पूर्वं निर्ग्रन्थनिर्ग्रन्थीनां निष्कारणं गात्राभ्यङ्गनादि निषिद्धम्, सम्प्रति निष्कारणं गात्राभ्यङ्गनादिकारी कारणे चायतनया करणशीलः परिहारतपः प्रायश्चित्तभागी भवतीति परिहारकल्पसूत्रमाह – 'परिहारकप्पट्ठिए' इत्यादि । सूत्रम् -- परिहारकप्पट्ठिए भिक्खू वहिया थेराण वेयावडियाए गच्छेजा, से य आहच्च अइवकमिज्जा, तं च थेरा जाणिज्जा अप्पणो आगमेण अन्नेसिं वा अंतिए सुच्चा, तओ पच्छा तस्य अहालहुस्सए नामं ववहारे पट्टवेयव्वे सिया || सू०५१ ॥ छाया - परिहारकल्पस्थितो भिक्षुः वहिः स्थविराणां वैयावृत्त्याय गच्छेत्, स च आहत्य अतिक्रामेत्, तच्च स्थविरा: जानीयु आत्मन आगमेन, अन्येषां वा अन्तिके श्रुत्वा ततः पश्चात् तस्य यथालघुस्वको नाम व्यवहारः प्रस्थापयितव्यः स्यात् ॥ स्० ५१| चूर्णी - 'परिहारकप्पट्टिए' इति । परिहार कल्पस्थितः परिहारतपो वहमानः भिक्षुः श्रमणः बहिः–स्थितस्थानादन्यत्र ग्रामनगरादौ, तत्रैव वा उपाश्रयान्तरे स्थितानां स्थविराणां वैयावृत्त्याय-वैयावृत्त्यनिमित्तम् उपलक्षणाद् नास्तिकादिवादिजयार्थं वा तादृशकार्यक्षमान्यश्रमणाभावे आचार्योपदिष्टो गच्छेत्, सच तत्र आहत्य - कदाचिद् अनिवार्यकारणवशाद् अज्ञानाद्या अतिक्रामेत्-प्रतिज्ञाततपोविशेषम् उल्लङ्घयेत् तच्च तस्यातिक्रमणं दोषसेवनरूपम् स्थविराः येषां वैयावृत्त्यार्थमागतस्ते प्रधानाचार्याः आत्मनः स्वस्य आगमेन - आगमोक्तावध्यादिज्ञानेन, वा - अथवा अन्येषाम्-तत्पार्श्वस्थान्यमुनीनां गृहस्थानां वा अन्तिके समीपे श्रुत्वा जानीयु, तस्यातिक्रमणं स्वस्य ज्ञानविषयीकृतं स्यात् तदा ततः पश्चात् तज्ज्ञानानन्तरं तस्य वैयावृत्त्यार्थमागतस्य परिहारकल्पस्थितस्य श्रमणस्य ‘अहालहुस्सए नामं' इति यथालघुस्वकनामकः यथालघुस्वकः यथासंभवं स्तोकप्रायश्चित्तरूपः व्यवहारः प्रस्थापयितव्यः दातव्यः स्यात् । तस्मै यथाशक्य लघुप्रायश्चित्तं दातव्यमिति भावः ॥ सू० ५१ ॥ पूर्वं परिहारकल्पसूत्रं कथितम्, सम्प्रति भक्तप्रसङ्गात् निर्ग्रन्थीनां पुलाकभक्तसेवनविधिमाह - 'निग्गंधी य' इत्यादि । सूत्रम् - निग्गंथीए य गादाव कुलं पिंड़वायपडियाए अणुष्पविद्वाए अन्नयरे लागभत्ते पडिग्गाहिए सिया, साय संथरिज्जा कप्पर से तदिवस तेणेव भत्तट्टणं पज्जोसवित्तए, नो से कप्पड़ दुच्चपि गाहावइकुलं पिंडवायपडियाए पविसित्तए वा, सायनो संथरिज्जा एवं से कप्पइ दुच्चं पि गाहावइकुलं पिंडवायपडियाए पविसित्तए । ०५२॥ ॥ पंचमोसो समतो ॥५॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy