________________
चूर्णिभाण्यांवचूरी उ० ५ सू० २०-२२
निर्ग्रन्या आतापनाविधिः १३१
छाया - नो कल्पते निर्ग्रन्थया अपात्रिकया भवितुम् ॥ सू० २० ॥ चूर्णी - 'नो कप्पइ' इति । नो कल्पते निर्ग्रन्ध्या अपात्रिकया पात्ररहितया भवितुम् अवस्थातुम्, पात्रराहित्ये आहारशौचादिक्रियाया अप्यसंभवेन लोकनिन्दासद्भावात् ।
पात्रं विना यत्र तत्रैव साध्वीभिर्भोक्तव्यं स्यात् । लोको वदेत् - साध्वीभ्यः कोऽपि पात्रं न ददाति तेन इमा गोश्वानादिवत् यत्र कुत्रापि निर्लज्जा सती लब्धमाहारं भोक्तुमारभन्ते कीदृश आसां धर्मः ? इति लोकापवादोऽवश्यम्भावीत्यतो निर्ग्रन्ध्या अपात्रिकया न भवितव्यमिति भावः ॥ सू० २० ॥
पूर्वसूत्रे निर्ग्रन्ध्याः पात्रं विनाऽवस्थातुं न शरीरेण कायोत्सर्गनिषेधमाह - 'नो कप' इत्यादि ।
कल्पते इत्युक्तम्, संप्रति तस्या विवस्त्र -
सूत्रम् -नो कप्पड़ निग्गंथीए बोसट्टकाइयाए होतए ॥ सू० २१ ॥ छाया - नो कल्पते निर्ग्रन्ध्या व्युत्सृष्टकायिकया भवितुम् ॥ सू० २१ ॥
चूर्णी - 'नो कप्पड़' इति । नो कल्पते निर्ग्रन्ध्या व्युत्सृष्टकायिकया - व्युत्सृष्टः शरीरवस्त्रादिममत्वत्यागेन परिव्यक्तः कायो देहो यया सा व्युत्सृष्टकाया, सा एव व्युत्सृष्टकायिका, तया 'मया दिव्याद्युपसर्गाः सोढव्याः' इत्यभिग्रहं गृहीत्वा शरीराद् वस्त्रं पृथक् कृत्य समयप्रसिद्धेन योगविषयकाभिनवकायोत्सर्गेण स्थितया भवितुम् - अवस्थातुं न कल्पते, निर्ग्रन्ध्या उद्घाटितशरीरेण कायोत्सर्गं कर्तु न कल्पते इति भावः । यतस्तथास्थिताया उदीर्णमोहप्रेरणया तरुणग्रहणादय उपसर्गाः पूर्वोक्ता एव भवन्ति तेन ब्रह्मचर्यव्रतभङ्गप्रसङ्ग आपतेत्, तस्मात् निर्ग्रन्या विवस्त्रशरीरया कायोत्सर्गो न कर्त्तव्य इति भावः ॥ सू० २१ ॥
,
पूर्व निर्ग्रन्ध्या विवस्त्रशरीरेण कायोत्सर्गः प्रतिषिद्धः सम्प्रति निर्ग्रन्ध्या ग्रामादितो बहिताप नाग्रहणनिषेधं प्रतिपादयितुमाह- 'नो कप्पर' इत्यादि ।
सूत्रम् - नो कपइ निमगंथीए वहिया गामस्स वा नगरस्स वा खेडस्स वा कब्वडस्स वा पट्टणस्स वा मडवस्स वा आगरस्स वा दोणमुहस्स वा आसमस्स वा सण्णिवेसस्स वा उड्ढं वाहाओ पगिज्झिय पगिज्झिय सूराभिमुहीए एगपाइयाए ठिच्चा आयावणाए आयावित्तए, कप्पर से उब्वस्सयस्स अंतो वगडाए संघाडिपडिवद्धाए पलं वियवाहियाए समतलपाइयाए ठिच्चा आयावणाए आया वित्तए । सू० २२ ॥
छाया -नो कल्पते निर्ग्रन्थ्याः बहिः श्रामस्य वा नगरस्य वा खेटस्य वा कर्वटस्य वा पत्तनस्य वा मडम्बस्य वा आकरस्य वा द्रोणमुखस्य वा आश्रमस्य वा संनि. वेशस्य वा उर्ध्व बाहू प्रगृह्य प्रगृह्य सूर्याभिमुख्याः एकपादिकायाः स्थित्वा आतापनया