SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० १ सू० १६ परिहारस्थानसेविनः प्रायश्चित्तविधिः १५ छाया-यो भिक्षर्वहशोऽपि चातुर्मासिकं वा, वटुशोऽपि सातिरेकचातुर्मासिकं वा वहुशोऽपि पाश्चमासिकं वा बहुशोऽपि सातिरेकपाञ्चमासिकं वा, एतेषां परिहारस्थानानां (मध्याद् ) अन्यतरत् परिहारस्थानं प्रतिसेव्य आलोचयेत्, अप्रतिकुच्य आलोचयतः चातुर्मासिकं वा सातिरेकचातुर्मासिकं वा, पाञ्चमासिकं, वा सातिरेकपाञ्चमासिकं वा, अप्रतिकुच्य आलोचयतः पाञ्चमासिकं वा सातिरेकपाञ्चमासिकं वा, प्रतिकुञ्च्य आलोचयतः पाञ्चमासिकं वा सातिरेकपाश्चमासिकं वा, पाण्मासिकं वा, ततः परं प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा ते चेव पण्मासाः ॥ सू० १६॥ __ भाष्यम्-'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'वहुसोवि' बहुशोऽनेकशोऽनेकवा रानित्यथः 'चाउम्मासियं वा' चातुर्मासिकं मासचतुष्टयेन सपादनयोग्यम् । 'बहुसोवि साइरेगचाउम्मासियं वा' वहुशोऽनेकवारान् सातिरेकचातुर्मासिकं चातुर्मासिकपरिहारस्थाने सातिरेकत्व रात्रिन्दिवपञ्चकादिभिर्भवति । रात्रिन्दिवपञ्चकादारभ्य भिन्नमासेनाऽधिकत्वमित्यर्थः । बहुसोवि पंचमासियं वा' बहुशोऽपि अनेकवारमपि पाञ्चमासिकं वा मासपञ्चकेन संपादनयोग्यं परिहारस्थानम् , 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा 'एएसिं परिहारहाणाणं' एतेषां चातुर्मासिकादिपरिहारस्थानानां मध्यात् 'अन्नयरं परिहारहाणं पडिसेवित्ता' अन्यतरत् यत्किमप्येकं परिहारस्थानं प्रतिसेव्य 'आलोएज्जा' आलोचयेत् आचार्यसमीपे दोषं प्रकाशयेत् । तत्र-'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामकृत्वा निष्कपटभावेन आलोचयतः 'चाउम्मासियं वा' चातुर्मासिकं वा 'साइरेगचाउमासियं वा' सातिरेकचातुमासिकं वा प्रायश्चित्तम् । 'पंचमासियं वा' पाञ्चमासिकं वा 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं वा प्रायश्चित्तं प्रतिसेवनानुसारि दद्यादाचार्यः। 'पलिडंचिय आलोएमाणस्स' प्रतिकुञ्च्य मायापूर्वकम् आलोचयतः चातुर्मासिकपरिहारस्थाने 'पंचमासियं वा' पाञ्चमासिकं प्रायश्चित्तं दद्यात्, तत्र-मासचतुष्टयपापस्थानस्य प्रतिसेवनाजनितत्वात् , मासाधिक्यस्य च मायापराधजनितत्वात् । सातिरेकचातुर्मासिकपरिहारस्थाने तु 'साइरेगपंचमासियं वा' सातिरेकपाञ्चमासिकं प्रायश्चित्तं दातव्यम् । सातिरेकपाञ्त्तमासिकपरिहारस्थाने सकपटमलोचयतस्तु 'छम्मासियं वा' पाण्मासिकं प्रायश्चित्तं दातव्यम् । 'तेण परं' तेन ततः पञ्चमासाधिकपरिहारस्थानप्रतिसेवनात् परं परस्मिन् परिहारस्थाने षट्सप्ताष्टादिमासिके प्रतिसेविते तु 'पलिउंचिए अपलिउंचिए वा' प्रतिकुञ्चिते सकपटे, अप्रतिकुञ्चिते निष्कपटे वा 'ते चेव छम्मासा' ते एव षण्मासाः प्रायश्चित्तरूपेण दातव्याः, कारणं पूर्वमुक्तमेवेति । ननु यदि शिष्यः प्रतिकुञ्य आलोचनां कुर्यात् तदा गुरुणा कथं ज्ञायते यदयं मूलगुणविषयं पापं सेवितवान् उत्तरगुणविषयं वा ? एवं सति न तस्य सम्यक् पापशुद्धिर्जायते । यदि तेन उत्तरगुणविषयं पापं सेवितं भवेत् तदा तस्मिन्ननालोचिते परम्परया मूलगुणेषु दोष
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy