SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ । अथ चतुर्थोद्देशकः । व्याख्यातस्तृतीयोदेशकः, साम्प्रतं चतुर्थोद्देशको व्याख्यायते । अत्र तृतीयोदेशकस्यान्तिमसूत्रेणास्यादिसूत्रस्य, कः सम्बन्धः ? इति तत्सम्बन्ध प्रतिपादयति भाष्यकारः-'गामाई०' इत्यादि । भाष्यम् -ग्रामाइवासवसणं, पुन्वं वुत्तं च समणसमणीणं । तत्थ य निवसंताणं, दुद्धाइयविगइसेवणओ ॥१॥ मोहुन्भवो हि जायइ, तेणं सेवेज्ज दोससंघायं । तस्स य पायच्छित्तं, वुच्चइ इह एस संबंधो ॥२॥ छाया—प्रामादिवासवसनं, पूर्वमुक्कं च श्रमणश्रमणीनाम् । तत्र च निवसतां दुग्धादिकविकृतिसेवनतः ॥१॥ मोहोद्भवो हि जायते, तेन सेवेयुर्दोषसंघातम् । तस्य च प्रायश्चित्तम् , उच्यते इह एष सम्बन्धः ॥२॥ अवचूरी-'गामाइ०' इति । पूर्वं तृतीयोदेशकस्यान्तिमसूत्रे श्रमणश्रमणीनां प्रामादिवासवसनम् उक्त-प्रतिपादितम् , तत्र च निवसतां मासकल्पवासं वा चातुर्मासवास वा कुर्वतां तेषां तत्र गोमहिण्यादिप्राचुर्येण दुग्धादिदाने लोकाः सुलभा भवेयुः, ते च संयतादीन् प्रचुरदुग्धादिना प्रतिलम्मेयुस्ततो दुग्धादिकविकृतिसेवनतः प्रणीतरसभोजनतस्तेषां हि निश्चयेन मोहोद्भवो जायते, तेन कारणेन ते दोषसंघातं हस्तकर्मादिदोषसमूहं कदाचित् सेवेयुः, तस्य च दोषसंघातस्य प्रायश्चित्तम् इह-अस्मिन् चतुर्थोद्देशकस्यादि सूत्रे उच्यते प्रतिपाद्यते, एष उक्तस्वरूपस्तृतीयचतुर्थीदेशकयोः सम्बन्धो वर्त्तते ॥ १-२-॥ इत्यनेन सम्बन्धेनायातस्यास्य चतुर्थोद्देशकस्येदमादिमं सूत्रम्-'तओ अणुग्धाइया' इत्यादि । . सूत्रम्-तओ अणुग्धाइया पण्णत्ता तंजहा-हत्थकम्मं करेमाणे १, मेहुणं पडिसेबमाणे २, राइभोयणं भुंजमाणे ३॥ सू० १॥ छाया-त्रयः अनुद्धातिकाः प्रशप्ताः, तद्यथा-हस्तकर्म कुर्वाणः १, मैथुनं प्रतिसेवमानः २, रात्रिभोजनं भुजानः॥ सू०१॥ चूर्णी-'तओ' इति । अनुद्वातिकाः-उद्घातयितुमशक्या अनुद्वातिकाः, अनुद्घातिकप्रायश्चित्तयोग्याः, एते द्रव्यक्षेत्रकालभावभिन्ना अपि प्रकृते गुरुमासिकप्रायश्चित्तभाजोऽत्र ग्राह्याः, ते त्रयः त्रिसंख्यकाः प्रज्ञताः भगवद्भिरुक्ताः । के ते? इत्याह-तंजहा-तद्यथा ते यथा-'हत्थकम्मं करेमाणे' हस्तकर्म कुर्वाणः, तत्र हस्तकर्म-हन्ति हसति वा मुखमावृत्य अनेनेति हस्तः आदाननिक्षेपादिकरणस्वभावः करः, तेन करणभूतेन यत् कर्म निषिद्धाचरणादिकं क्रियते तत् हस्तकर्म, शुभाशुभं सर्वमपि कर्म हस्तेनैव क्रियते किन्त्वत्र निषिद्धाचरणस्य प्रस्तावात्कर्मणो निषिद्वाचरणमित्यर्थः कृत इति, तत् कुर्वाणः आचरन् प्रथमोऽनुद्घातिको भवति १ । द्वितीयमाह
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy