SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ०- ३ सु० २७-२९ उपाश्रयादेरवग्रहानुज्ञापनाविधिः ७७ अथ स उपाश्रय एवावग्रहस्य पूर्वानुज्ञापनायां तिष्ठति किमन्यदपि तत्रस्थितं सागारिकसत्कं वस्तु पूर्वानुज्ञापनायां तिष्ठति ? इति जिज्ञासायां तद्विषयकं सूत्रमाह- 'अस्थि या इत्थ' इत्यादि । सूत्रम् - अस्थि या इत्थ केt उवस्यपरियावन्नए अचित्ते परिहरणारिहे सच्चेच उग्गहस्स पुव्वाणुण्णवणा चिह्न अहालंदमवि उग्गहो । सू० २७ ॥ छाया -- अस्ति चात्र किञ्चिद् उपाश्रयपर्यापन्नम् अचित्तं परिहरणार्ह सैव अवग्रहस्य पूर्वानुज्ञापना तिष्ठति, यथालन्दमपि अवग्रहः ॥ सू० २७ ॥ चूर्णी -- 'अत्थि या इत्थ' इति । अस्ति चात्र पूर्वस्थितश्रमणपरित्यक्तोपाश्रये किञ्चित्`वस्त्रादिकम् उपाश्रयपर्यापन्नम् - उपाश्रये पर्यापन्न पूर्वस्थितश्रमणैर्विहारसमये विस्मृतं परित्यक्तं वा सागारिकसत्कं वा किमपि वस्तु स्थितम् उपाश्रयपर्यापन्नम्, अचित्तं वस्त्रादिकं 'पात्रादिकं वा तद् यदि परिहरणा प्रासुकत्वेन साधूनां परिभोगयोग्यं भवेत् तद्विषयेऽपि सा एव अवग्रह्रस्य अनुज्ञापना तिष्ठति, तत्परिभोगः पूर्वानुज्ञापनयैव कर्त्तव्यः, न तत्परिभोगेऽन्यानुज्ञापना ग्रही - तव्या, तत्परिभोगेन साधूनामदत्तादानादिदोषा सद्भावादिति भावः । कियन्तं कालमित्याह-यथालन्दमपि मध्यम यथालन्दकालमष्ट पौरुषपर्यन्तम् अवग्रहस्तिष्ठति यथालन्दकालं यावत्तदुपभोगो नूतनसमागतश्रमणानां कल्पते इति भावः ॥ सू० २७ ॥ पुनरप्यवग्रहानुज्ञापनाविषये प्राह - 'से वत्थुसु' इत्यादि । सूत्रम् - से वत्थुसु अव्यावडेसु अन्धोगडेसु अपरपरिग्गहिएस अमरपरिग्गहिएस सच्चेव उग्गहस्स पुव्वाणुण्णवणा चिह्न अहालंदमवि उग्गहो || सू० २८ ॥ छाया- - तस्य वास्तुपु अव्यापृतेषु अव्याकृतेषु अपरपरिगृहीतेषु अमरपरिगृहीतेषु सैव अवग्रहस्य पूर्वानुज्ञापना तिष्ठति यथालन्दमपि अवग्रहः ॥ सू० २८ ॥ चूर्णी - तस्य अन्यग्रामाद् विहृत्यागच्छतः वास्तुषु वसतिगृहेषु कीदृशेषु ? तत्राहअव्याट्टंतेषु शटितपतिततया निवासव्यापारवर्जितेषु, अव्याकृतेषु अविभक्तेषु येषां दायादादिभिर्विभागो न कृतस्तादृशेषु अनेकजनसत्तावत्सु, यद्वा अतीतकाले केनाऽप्यनुज्ञातानि इमानि चास्तूनि इत्यज्ञातेषु, अपरपरिगृहीतेषु-परैरन्यैः परिगृहीतानि स्वपरिग्रहे कृतानि परपरिगृहीतानि, न तथा अपरपरिगृहीतानि अन्यैरनधिष्ठितानि तेषु, अमरपरिगृहीतेषु ममरैः व्यन्तरादिदेवैः परिगृहीतेषु 'स्वा“घीनीकृतेषु यथा व्यन्तराधिष्ठितभूमिभागे व्यन्तरादिदेवान् अवमान्य निर्मापितत्वेन ते तत्र गृहनिर्मापकं न वासयन्ति विघ्नं कुर्वन्ति न तथा श्रमणानाम् तानि गृहाणि अमरपरिगृहीतानि प्रोच्यन्ते तेषु एतेषु वास्तुषु सैव पूर्वस्थितश्रमणविषयैव अवग्रहस्य पूर्वानुज्ञापना यथालन्दकाल तिष्ठति, यथालन्दकालं यावद् आगन्तुकश्रमणैः भूयोऽवग्रहो नानुज्ञापनीय इति भाव' ॥ सू० २८ ॥ तदेव विशदयति भाष्यकारः - - ' अव्वावड ०" इत्यादि ।
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy