SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ व्यवहारसूत्रे परिहारस्थानं पापप्रयोजकसावद्यकर्मानुष्ठानम् 'पडि से वित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् आलोचनां कुर्यात्, ‘अपलिउंचिय' अप्रतिकुञ्च्य, प्रतिकुञ्चना माया तामकृत्वा 'आलोएमा - णस्स' आलोचयतः 'चाउम्मासिय' चातुर्मासिकं प्रायश्चित्तं मासचतुष्टयेन संपादन योग्यं प्रायश्चित्तं दीयते, 'पलिउंचिय' प्रतिकुञ्च्य मायां कृत्वा 'आलोएमाणस्स' आलोचयतः 'पंचमासिय' पाञ्चमासिकम्, मासपञ्चकेन संपादनयोग्यं प्रायश्चित्तम्, अप्रतिकुञ्च्यालोचयतश्चातुर्मासिकं प्रायश्चित्तम् । प्रतिकुञ्च्यालोचयतः पञ्चमो मायानिष्पन्नो गुरुमासो दीयते ॥ सू० १० ॥ १० सूत्रम् - जे भिक्खु बहुसोवि पंचमासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा । अपलिउंचिय आलोएमाणस्स पंचमासियं पलिउंचिय आलोएमाणस्स छम्मा सियं ॥ सू० ११। छाया -यो भिक्षुर्वशोऽपि पाञ्चमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुञ्च्य आलोचयतः पाञ्चमासिकं, प्रतिकुञ्च्य आलोचयतः षाण्मासिकम् ॥ सू० ११ ॥ भाष्यम् – 'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः 'बहुसोवि' बहुशोऽपि पञ्चषड्वारान् बहून् वा 'परिहारद्वाणं' परिहारस्थानं पापस्थानं 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् तस्यालोचनासमये 'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य प्रति'कुञ्च नाम कृत्वा, आलोचयतः 'पंचमासियं' पांचमासिकं मासपंचकेन संपादनयोग्यं प्रायश्चित्तं दद्यात् 'पल्डिंचिय' प्रतिकुञ्च्य प्रतिकुञ्चना माया, तां पुरस्कृत्य आलोचयतस्तु 'छम्मा सिय' पाण्मासिकं मासषट्केन संपादनयोग्यं प्रायश्चित्तम् । अप्रतिकुञ्च्यालोचयतः पांचमासिकम्, प्रतिकुञ्च्यालोचयतः षष्ठो मायानिष्पन्नो गुरुमासो दीयते ॥ सू० ११ ॥ सूत्रम् - तेण परं पलिउंचिए वा अपलिउंचिए वा, ते चेव छम्मासा ॥ सू० १२॥ छाया - ततः परं प्रतिकुञ्चिते वा अप्रतिकुञ्चिते वा त पव षण्मासाः ॥ सू०१२ ॥ भाष्यम् – 'तेण परं' इति । 'तेण परं' तत' परं षाण्मासिकादिपरिहारस्थाने प्रतिसेचितेऽपि आलोचनाकाले 'पलिउंचिए अपलिउंचिए वा' प्रतिकुञ्चिते अप्रतिकुञ्चते वा, प्रति कुञ्चतया वा अप्रतिकुञ्चतया वा आलोचिते 'ते चेव' ते एव प्रतिसेवनानिष्पन्नाः स्थिताः 'छम्मासा' षण्मासाः, नाधिकं प्रतिकुञ्चनानिमित्तम् - आरोपणम् एतादृशजीतकल्पत्वात्, महावीरशासने षाण्मासिकस्यैव प्रायश्चित्तस्य विधानात् ॥ सू० १२ ॥ सूत्रम् - जे भिक्खु मासियं वा, दोमासियं वा, तेमासियं वा, चाउम्मासियं वा, पंचमासियं वा, एएसिं परिहारट्ठाणाणं अन्नयरं परिहारद्वाणं पडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा, पलिउंचिय आलोएमाणस्स दोमासियं वा तेमासियं वा
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy