SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरी उ० २ सू० ९-१२ सचित्तप्रतिवद्धोपाश्रयनिवासविधिः ४५ कडाणि वा पुंजकडाणि वा भित्तिकडाणि वा कुलियाकडाणि वा लंछियाणि वा मुदियाणि वा पिहियाणि वा कप्पइ निग्गंथाण वा निग्गंथीण वा हेमंतगिम्हासु वत्थए। सू०९ ॥ छाया_अथ पुनरेवं जानीयात् (उपाश्रयस्य अन्तर्वगडायां पिण्डको वा०) नो उत्क्षिप्तानि वा नो विक्षिप्तानि वा नो व्यतिकीर्णानि वा नो विप्रकोर्णानि वा (किन्तु) राशीकृतानि वा पुजीकृतानि वा भित्तिकृतानि वा कुलिकाकृतानि वा लामिछतानि वा मुद्रितानि वा पिहितानि वा कल्पते निम्रन्थानां वा निर्ग्रन्थीनां वा हेमन्तग्रीष्मेपु वस्तुम् ।। चूर्णी-'अह पुण' इति । अथ पूर्वप्रदर्शिताद् अन्यथा पुनः साधुर्जानीयात् उपाश्रयान्तर्वगडायां पिण्डकादोनि खाद्यवस्तूनि नो उत्क्षिप्तानि, इत्यादिपदानां व्याख्या पूर्ववत् , एवंप्रकारेण पूर्वोक्तपिण्डकादिवस्तूनि स्थापितानि भवेयुस्तदा हेमन्तग्रीष्मेषु अष्टमासात्मकेषु यथाकल्पकालं यावत् निर्ग्रन्थनिग्रंथीनां तत्र वस्तुं कल्पते तत्र पूर्वोक्तदोषासभवात् ॥ सू०९ ॥ अथ तत्रापि चातुर्मासनिवासयोग्योपाश्रयनिवासविधिप्रतिपाऽदकं तृतीयसूत्रमाह-'अह पुण' इत्यादि। सूत्रम्--अह पुण एवं जाणेज्जा (उवस्सयस्स अंतो वगडाए पिंडए वा०) नो रासिकडाणि वा नो पुंजकडाणि वा नो भित्तिकडाणि वा नो कुलियाकडाणि वा कोद्राउत्ताणि वा पल्लाउत्ताणि वा मंचाउत्ताणि वा मालाउत्ताणि वा ओलित्ताणि वा विलित्ताणि वा लंछियाणि वा मुदियाणि वा पिहियाणि वा, कप्पइ निग्गंथाण वा निग्गंथीण वा वासावासं वत्थए ॥ सू० १०॥ छाया--अथ पुनरेवं जानीयात् (उपाश्रयस्य अन्तर्वगडायां पिण्डको वा०) नो राशीकृतानि वा नो पुजीकृतानि वा नो भित्तिकृतानि वा नो कुलिकाकृतानि वा कोष्ठागुप्तानि वा पल्यागुप्तानि वा मञ्चागुप्तानि वा मालागुप्तानि वा अवलिप्तानि वा 'विलिप्तानि वा लाञ्छितानि वा मुद्रितानि वा पिहितानि वा कल्पते निर्ग्रन्थानां वा निम्रन्थीनां वा वर्षावासं वस्तुम् ॥ सू १० ॥ चूर्णी-'अह पुण' इति । अथ तत्र चातुर्मासं वस्तुकामो मुनिर्यदि एवं वक्ष्यमाणप्रकारेण जानीयात्, किं जानीयादित्याह-पिण्डकादारभ्य शिखरिणीपर्यन्तानि भक्ष्यद्रव्याणि 'नो राशीकृतानि इत्यादीनि पिहितानि वा' इति पर्यन्तानि पदानि शालिबीजप्रकरणगततृतीयसूत्रवद् व्याख्येयानि, एवंविधो यदि उपाश्रयो भवेत् तदा तत्र निर्ग्रन्थनिर्ग्रन्थीनां वर्षावासे चातुर्मासं वस्तुं कल्पते, पूर्वोक्तप्रकारेण रक्षितानां पिण्डकादिभक्यपदार्थानां भूयो भूयो निष्कासनस्थापनाद्यभावेन दोषाभावादिति ।। सू० १० ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy