SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ व्यवहार सु तत्रैकेन महोत्सवसमये कस्मैचिद् राज्ञे सा माला विधिना प्रदर्शिता, स राज्ञा बहुद्रव्येण पुरस्कृतः । द्वितीयेन सा माला न प्रकटीकृता संगोप्य रक्षिता तेन पुरस्कारो न लब्धः, एवं यो मूलगुणांपराधमुत्तरगुणापराध च न प्रकटीकरोति स निर्वाणलाभं न लभते, अपरः स्वापराधप्रकाशकस्तु परम्परया निर्वाणलाभ लभते इति ॥ सुं०४ । י सूत्रम् - जे भिक्खू पंचमासिंयं परिहारद्वाणं पडिसेवित्ता आलोएज्जा | अपलिउँचिय' आलोएमाणस्स पंचमार्सिय, पलिउचियं आलोएमाणस्स छम्मासियं ॥ सू०५ ॥ छाया - यो भिक्षुः पाञ्चमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् । अप्रतिकुञ्चय आलोचयतः पाञ्चमासिकं, प्रतिकुञ्च्यालोचयतः पाण्मासिकम् ॥ सू० ५ ॥ भाष्यम् 'जे भिक्खू' इति । 'जे भिक्खू' य कश्चिद्भिक्षु' 'पंचमासिय' पांचमासिकं 'परिहारड्डाणं' परिहारस्थानं 'पडिसेवित्ता' प्रतिसेव्य 'आलोएज्जा' आलोचयेत् 'अॅप लिउंचिय' अप्रतिकुञ्च्य 'ऑलोएमाणसं' आलोचयतः 'पंचमासिय' पांचमासिकं मासपञ्चकसाध्यं प्रायश्चित्त लघुकं गुरुकं वा प्रतिसेवनानुसारि गुरुर्दद्यात्, 'पलिउंचिय आलोएमाणस्स' प्रतिकुञ्च्य मायां कृत्वा, मायापूर्वकमालोचयतस्तु 'छम्प्रासिय' षाण्मासिकं षड्भिर्मासैः साघनीयं लघुक गुरुकं वा प्रतिसेवनानुसारि प्रायश्चित्तं दद्यात् । अत्र प्रतिकुञ्चके मेघदृष्टान्तो यथा - एको मेघो नो गर्जति नो वर्षति; कश्चित् मेघो नो गर्जनं कृत्वा नो वर्षति, एवं हे शिष्य ! त्वमपि आलोचयामीति कथयित्वा आलोचयितुमारभ्य मायां करोषि । यदि माया कॅरिष्यसि तदा नियमभ्रष्टो भविष्यसि अतः सम्यगालोचय, मायां मा कुरु । तत्र द्वैमांसिकादिपरिहारस्थानेषु कुचिते' यथाक्रममिमें पूर्वोक्ताश्चत्वारो दृष्टान्ताः घटते, तथहि-द्वैमासिकं परिहारस्थानं प्राप्तस्य प्रतिकुञ्चकस्य दृष्टान्तः कुंश्चिकः तापसः १ । त्रैमासिकं परिहारस्थानं प्राप्तस्य' योघो दृष्टान्तः २ । चातुर्मासिकं परिहारस्थानं प्राप्तस्य मालाकारो दृष्टान्तः ३ । पश्चिमासिकं परिहारस्थानं प्राप्तस्य मेघो दृष्टान्तः ४ । तत्र प्रतिकुञ्चनायां कृतायामाचार्येण - 'सम्यगालोंचय मां प्रतिकुञ्चनां कुरु' एवमुपाघो यदि सम्यक् प्रत्यावृत्य वदेत्-भगवन् ! "मिच्छामि दुक्कडं" मिध्या मे दुष्कृतंम्, सत्यं भवतां कथनम्, संम्प्रति सम्यगालोचयामि । ततः स श्रुतव्यवहारी प्रतिकुश्चिते तं तथा प्रत्योंवृत्तं सन्तं पुनरपि वास्त्रयमालोचनां कारयति । तत्र त्रिभिर्वारैः सदृशमालोचयति तदा ज्ञातव्यो यदयं सम्यक् प्रत्यावृत्त इति । तदनन्तरं तस्मै यद्देयं प्रायश्चित्तं तदातव्यमिति । ननु वारत्रयमालोचनादेवाऽस्य श्रुतव्यवहारिणोऽन्तर्गतां मायां कथ लक्षीकुर्वन्ति ? तत्राह - 1
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy