SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्रे mmmmwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww भाष्यम्-पढमे आममभिन्न, तालमलब निसेहियं दुण्हं । वीए भिन्नग्गहणं, आणत्तं समण-समणीणं ॥१॥ तइए निग्गंयाण, भिण्णमभिण्णं च पक्कमाणचं । निग्गंधीण चउत्थे, पकं पि निसेहियमभिण्णं ॥२॥ कप्पड़ य एत्थ भिण्णं, विहिभिण्णं तंपि णो अविहिभिण्ण समणीण य छ भंगा, जो सुद्धो सो य गहियचो ॥३॥ छाया-प्रथमे आममभिन्नं तालप्रलम्वं निषिद्धं द्वयानाम् । द्वितीये भिन्नग्रहणम् , आक्षप्त श्रमण-श्रमणीनाम् ॥१॥ तृतीये निग्रन्थानां, भिन्नमभिन्नं च पक्वमाक्षप्तम् । निर्ग्रन्थीनां चतुर्थ, पक्कमपि निषिद्धमभिन्नम् ॥२॥ कल्पते चात्र (पञ्चमे) भिन्न, विधिभिन्नं तदपि नो अविधिभिन्नम् । श्रमणीनां पह भङ्गा, यः शुद्धः स च ग्रहीतव्यः ॥३॥ अवचूरी--पढमे इति । पढमे प्रथमे सूत्रे आममभिन्न तालप्रलम्ब दुण्हं द्वयानां श्रमणानां श्रमणीनां च निसेहियं निषिद्धमिति । बीए द्वितीये सूत्रे समगसमणीणं, श्रमण-श्रमणीनां साधूनां साध्वीनां च भिण्णग्गहणं भिन्नग्रहणं भिन्नस्य तालप्रलम्बस्य ग्रहणम् आदानम् आण आज्ञप्तम्-आज्ञाविषयीकृतं भगवतेति ॥१॥ तइए तृतीये सूत्रे निम्रन्थानां साधूनां पक्के पकं तालप्रलम्बं भिन्नमभिन्नं च आज्ञप्तम् । चउत्थे चतुर्थे सूत्रे निर्ग्रन्थीनां पक्वमपि तत् अभिन्नं निषिद्धम् ॥२॥ 'एत्य' अत्र पञ्चमे सूत्रे निम्रन्थीनां भिन्न कल्पते किन्तु तंपि तदपि भिन्नं तालप्रलम्बमपि विदिभिन्न विधिभिन्नं विधिना समुचितप्रकारेण नतु केनाप्याकारविशेषेण मिन्नं खण्डितं भवेचदा कल्पते नो अविहिभिण्णं अविधिभिन्नम्, अविधिना अनुचितप्रकारेण, केनापि आकारविशेषण भिन्नं भवेत्तदा नो नैव कल्पते । अत्र श्रमणीनां प्रलम्बग्रहणे छ भंगा षड् भङ्गा भवन्ति तत्र यो भङ्गो ग्रहणविषये शुद्धो भवेत् सो गहियव्यो स ग्रहीतव्यः नान्य इति ॥३॥ के ते पड् भङ्गाः ? इति तान् प्रदर्शयति भाष्यकार:--'समणीणं' इत्यादि भाष्यम्-समणीणं छ भंगा, होति य जे ते इहं पवुच्छामि । पढमो दोहि अभिण्णं, दवेणं तह य भावेणं (१) ॥४॥ अविहि-विही य दवे, वीओ तइओ य होइ दो भंगा (३)। भावेण य दवेण य, भिण्णमभिण्णं चउत्थो य (४)॥५॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy