SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ७ सू० २-३ अन्यगणागतनिर्मन्थी ग्रहणविधिः १६५ पूर्वमन्यगणादागताया अनालोचितपापस्थानायाः साम्भोगिक निर्ग्रन्थाज्ञामन्तरेण सुखगाताप्रच्छनादि निर्ग्रन्थीनां न कल्पते इति प्रोक्तम्, सम्प्रति तद्विपर्यये सूत्रमाह - 'जे णिग्गंथा य णिग्गंथोओ य' इत्यादि । सूत्रम् - जे णिग्गंथा य णिग्गंथीओ य संभोइया सिया कप्पड़ णिग्गंथीणं णिये आपुच्छित्ता णिग्गंधिं अन्नगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकिलिट्ठायारचरितं तस्स ठाणस्स आलोयावेत्ता जाव अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जावेत्ता पुच्छिंत्तए वा वाएत्तए वा उवद्यावेत्तए वा संभुंजित्तए वा संवसित्तए वा, तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दित्तिए वा धारित्तए वा ।। सू० २ ।। छाया - ये निर्ग्रन्थारच निर्ग्रन्थ्यश्च सांभोगिकाः स्युः कल्पते निर्ग्रन्थीनां निर्यन्थानाऽऽपृच्छ्यं निर्ग्रन्थीमन्यगणादागतां क्षताचारां शवलाचारां भिन्नाचारां संक्लिष्टाचारचरित्रां तस्य स्थानस्याऽऽलोच्य यावद् यथार्ह प्रायश्चित्तं तपःकर्म प्रतिपाद्य प्रष्टुं वा वाचयितुं वा उपस्थापयितुं वा संभोक्तुं वा संवस्तु वा तस्या इत्वरिकां दिशं वा अनुदिशं वा उद्देष्टुं वा धारयितुं वा ॥ सू० २ ॥ भाष्यम् – जे णिग्गंथा य' ये निर्ब्रन्याश्च श्रमणाः, 'णिग्गंथीओ य' निर्ग्रन्ध्यः श्रमण्यश्च 'संभोइया सिया' साम्भोगिकाः स्युः तन्मध्यात् 'कप्पइ' कल्पते 'णिगंथीणं' निर्ग्रन्थीनां श्रमणी - नाम 'णिग्गंथे आपुच्छित्ता' निर्मन्थान् साम्भोगिकाचार्यान् आपृच्छ्य - पृष्ट्वा तदाज्ञामादायेत्यर्थः, किमित्याह-‘णिग्गंथिं' इत्यादि, 'णिग्गंर्थि अन्नगणाओ आगयं' निर्ग्रन्थीमन्यगणात्- गच्छान्तरात् आगताम् 'खुयायारं' क्षताचाराम् शबलाचाराम् भिन्नाचाराम् संक्लिष्टाचारचरित्रामित्येषां पदानां व्याख्या षष्ठोद्देशकस्य चतुर्विंशतितमसूत्रे विलोकनीयेति, 'तस्स ठाणस्स' तस्य स्थानस्य यस्याऽपराधस्थानस्य संसेवनेन क्षताचारादिका जाता तस्यापराधस्थानस्य 'आलोयावेत्ता' आलोच्य-आलोचनां कारयित्वा 'जाव' यावत्, अत्र यावत्पदेन 'पडिक्कमावेत्ता निंदावेत्ता गरिहावेत्ता विद्यावेत्ता विसोहावेत्ता अकरणाए अन्भुट्टावेत्ता' एतेषां पदानां सग्रहः, व्याख्या च षष्ठोदेशकस्य चतुर्विंशतितमे सूत्रेऽवलोकनीयेति, 'अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जावेत्ता' तस्य पापस्थानस्य यथार्ह - यथायोग्यं प्रायश्चित्तं तपःकर्म प्रतिपाद्य पापस्थानोचितं प्रायश्चिरूपेण तपो दत्त्वेत्यर्थ, तदनेन क्रमेण तपःकर्मणां सम्यक् तां विशुद्धीकृत्य ततः पश्चात् 'पुच्छित्तए वा' सुखशांतादि प्रष्टुं वा, 'वाएत्तए वा' वाचयितुं वा वाचनां दातुं वा 'उवडावेत्तए वा' उपस्थापयितुं वा पुनर्महाव्रतेषु समारोपयितुं वा, ‘संभुंजित्तए वा' संभोक्तुं वा तया सह एकमण्डल्यामाहारादिकं कर्त्तुं वा 'संवसित्तए वा' सवस्तुं वा एकत्र मिलित्वा वासं कर्त्तुं वा 'ती से इत्तरियं दिसं वा' तस्या उपर्युक्तप्रकारेण प्रायश्चित्तादिना विशुद्धायाः कृते इत्वरिकाम् अल्पकालिकों प्रवर्त्तिन्यादिपदवीम्, 'अणुदिसं वा' अनुदिशं वा यावज्जीवन कालिकों प्रवर्त्तिन्यादिपदवीं वा 'उद्दिसित्तए वा' उद्देष्टुं वा अनुज्ञातुं वा, 'धारितए वा' धारयितुं वा - तादृशपदव्या. धारणं कारयितुं वा कल्पते ॥ सू० २ ॥
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy