SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ०५ सू० १९ निम्रन्थनिर्ग्रन्थीनां परस्परमालोचनाविधिः १४१ - द्वादशविधः, उक्तश्च--:, । : गाथा- 'उवहि-सुय-भत्तपाणं, अंजलिपगहो य दावणा णेया । छटुं निकायणं तह, अव्भुट्ठाणं च किइकम्मं ॥१॥ वेयावच्चं चसमो-सरो निसज्जा कहापबंधो य । बारसविहो य एसो, संभोगो ओघमो णेमो ॥२॥ इति, छाया-उपधि-श्रुत-भक्तपानम् अञ्जलिप्रग्रहश्च दापना ज्ञेया । षष्ठं निकाचनं तथा, अभ्युत्थानं च कृतिकर्म ॥१॥ वैयावृत्त्यं समवसरणं निषद्या कथाप्रबन्धश्च । द्वादशविधश्चैष संभोग ओघतो ज्ञेयः ॥२॥ इति । .. तथाहि-उपधिविषयः १, श्रुतविषयः २, भक्तपानविषयः,३, अञ्जलिप्रग्रहविषयः ४, दापनाविषयः दापना-शय्याहारोपधिस्वाध्यायशिष्यगणानां प्रदापनं तद्विषयः ५, निकाचनविषयः, निकाचनं निमन्त्रण तद्विषयः ६, अभ्युत्थानविषयः ७, कृतिकर्मविषयः ८, वैयावृत्यविषयः ९, समवसरणं व्याख्यानादिकरणे गृहस्थसाक्षात् परस्परमन्तिके उपवेशनं, तद्विषयः समवसरणविषयः १०, संनिषद्याविषयः ११, कथाप्रबन्धविषयश्चेति १२ द्वादशविधः संभोगस्तद्विशिष्टाः सांभोगिका भवेयः 'नो पहं कप्पइ अन्नमन्नस्स अंतिए -आलोएत्तए' नो-नैव 'ई' इति वाक्यालङ्कारे कल्पतेऽन्योऽन्यस्य-परस्परस्य अन्तिके-समीपे निम्रन्थस्य निर्ग्रन्थीसमीपे, निर्ग्रन्या॑श्च निम्रन्थसमीपे आलोचयितुम्-आलोचनां कत्तुम् स्वकीय स्वकीयमतीचारज़ातं प्रकटयितुं नो कल्पते इति सम्बन्धः । एवं तर्हि कुत्र कल्पते ? इत्याह-'अस्थि या' इत्यादि । 'अस्थि या पत्थ कई आलोयणारिहे. सन्ति-विद्यन्ते. चेदत्र समुदाये केचिदालोचनाोः आलोचनादानयोग्याः स्थानाङ्गसूत्रस्य दशमस्थानोक्तदशविधगुणवन्तो निर्ग्रन्थास्तदा-'कप्पइ से तेंसिं अंतिए आलोएत्तए' कल्पते तस्य-आलोचकस्य तेषाम् आलोचनार्हाणामन्तिके समीपे आलोचयितुम् । आलोचनाहः स्थानाङ्गसूत्रस्य दशमस्थानोकदशविधगुणधारको भवेत् । उक्तञ्च___"दसहि ठाणेहिं संपन्ने अणगारे मरिहंइ आलोयणं पडिच्छित्तए, तं जहा-आयारवं १, अवहारवं २, ववहारवं ३, ओवीलए '४, पकुब्बए ५, मपरिस्साई ६, निज्जावए ७, अवायदंसी ८, पियधम्मे ९, ददधम्मे १०" ॥ ' छाया-आचारवान् १, अवधारवान् -२, व्यवहारवान् ३, अपनीडकः ४, प्रकुर्वकः ५, अपरिस्रावी ६, निर्यापकः ७, अपायदर्शी ८, प्रियधर्मा ७. दृढधर्मा १० इति । .
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy