SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० ३ ० १०-११ असमाप्तश्रुतनिरुद्धपर्यायस्याचार्यादिषदविधिः ८७ कारणकलापैः यदि कदाचित् सोऽशुभकर्मोदयात् तत्तत्सम्बन्धिकारणविशेषाद्दा निरुद्धपर्यायो भूत्वा पुनः शुभकर्मोदयादीक्षां गृह्णाति, एवं तस्य पूर्वपर्यायकाले समाचरितान् संघोपकारकगुणान् स्मृत्वा तस्य तदिवसे एव आचार्योपाध्यायपदवीं दातुं कल्पते इत्यनुज्ञातं भगवतेति न कोऽपि दोष इति शिष्यप्रश्नसमाधानमिति ॥ सू० ९ ॥ पूर्व निरुद्धपर्यायस्य पुनर्दीक्षिते सति तदिवस एवाचार्यादिपददानविधिरुक्तः, साम्प्रतं तादृशस्यैवासमाप्तश्रुतस्य तद्विधिमाह-'निरुद्धवासपरियाए' इत्यादि । सूत्रम्-निरुद्धवासपरियाए समणे णिगथे कप्पइ आयरियउवज्झायत्ताए उदिसितए समुच्छेयकप्पंसि तस्स णं आयारपक्रप्पस्स देसे अवढिए सेय 'अहिज्जिस्सामि'-त्ति अहिज्जेज्जा एवं से कप्पइ आयरियउवज्झायत्ताए उद्दिसित्तए, से य 'अहिज्जिस्सामि'त्ति नो अहिज्जेज्जा एवं से नो कप्पइ आयरियउवज्झायत्ताए उदिसित्तए तदिवस ॥ सू० १०॥ छाया-निरुद्धवर्प पर्यायः श्रमणो निर्ग्रन्थ. कल्पते याचार्योपाध्यायतया उद्देष्टुम् , समुच्छेदकल्पे तस्य खलु आचारप्रकल्पस्य देशोऽवस्थितः स च 'अध्येण्यामी'-ति अधीयीत, एवं तस्य कल्पते आचार्योपाध्यायतयोद्देष्टम् । स च 'अध्येण्यामी'-ति नो अधीयीत एवं तस्य नो कल्पते आचार्योपाध्यायतया उद्देष्टुं तदिवसम् ॥ सू० १० ॥ भाष्यम् –'निरुद्धवासपरियाए' निरुद्धवर्षपर्यायः, निरुद्धो विनष्टो वर्षपर्यायो यस्य स निरुद्धवर्षपर्यायः । अयं भावः-त्रिषु वर्षेषु परिपूर्णेषु यस्य असमाप्तश्रुतस्य पूर्वपर्यायो निरुद्धो विनष्टो भवेत् । अथवा अपूर्णेषु त्रिपु वर्षेषु समाप्तश्रुतस्य वर्षपर्यायो निरुद्धः स्यादिति, एतादृशः 'समणे णिग्गंथे' श्रमणो निम्रन्थ 'कप्पई' कल्पते 'आयरियउवझायत्ताए उद्दिसित्तए' आचार्योपाध्यायतया आचार्यतया उपाध्यायतया वा उद्देष्टुं स्थापयितुम्, त्रिवर्षपर्यायः श्रमणो निम्रन्थः आचार्यतयाउपाध्यायतया वा उद्देष्टुं कल्पते इति भावः । कदा कल्पते ? इत्याह-'समुच्छेयकप्पंसि' इत्यादि, 'समुच्छेयकप्पंसि' ममुच्छेदकल्पे कल्पस्य समुच्छेदकाले आचार्ये गणनायके कालं गते सतीत्यर्थः अन्यस्य बहुश्रुतस्य लक्षणपूर्णस्य चाऽसत्त्वे तस्य भाचार्यतया उपाध्यायतया वा उद्देष्टुं कल्पते। कथं कल्पते ! इत्यत्र विधिमाह-'तस्स णं तस्य खलु प्रस्तुतश्रमणनिम्रन्थस्य यद्यपि सः भबहुश्रुतोऽस्ति किन्तु अध्ययनसमर्थो भवेत् तादृशस्य तस्य यदि 'आयारपकप्पस्स' माचारप्रकल्पस्य आचाराङ्गनिशीथाध्ययनस्य 'देसे' देश किश्चित्प्रमाणोऽश. 'अवट्ठिए' अवस्थितः-अपठितरूपेण स्थितो वर्तते, किञ्चित्प्रमाणोऽशो नाधीतः, सूत्रमधीतम् अर्थस्तु नाद्याप्यधीत इति, ‘से य' तं च
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy