SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ भाष्यम् उ० २ सू० २५ परिहारकल्पस्थितायाऽशनादिदानविधिः ७५ अथ यदि विहारं न कुर्वन्ति तत्रैव तिष्ठन्ति तदा भद्रकप्रान्तकृतदोषा भवेयुः। तत्र भद्रकृता दोषा अतिपरिचयादुद्गमादिसंभवः, प्रान्तकृतदोषाः बहुचिरादेकत्रावस्थानेन क्षुद्रजनकृताक्षेपरूपाः 'यदेतेऽत्रैव तिष्ठन्ति न च कुत्रापि विहरन्तीति । वर्षाकाले तु एते दोषाः प्रायो न भवन्ति । वर्षाकाले प्रायो वहवः प्राणा उत्पद्यन्ते ततो भिक्षाचर्या दीर्घा न भवति ! वर्षाकालस्य स्निग्यतया स कालो बलिष्ठस्तेन तपः कुर्वतां बलोपष्टम्भं करोति । तथा वर्षाकालस्य तपोऽनुष्ठानाश्रयतया सर्वेषां समतत्वेन कस्याऽपि विशेषतो रागस्य द्वेषस्य चाऽसंभवादिति । तथा कल्पाध्ययनप्रतिपादिता गुणा अपि वर्षाकाले संभवन्ति । एतस्मादेव कारणात् वर्षाकाले एव विशेषतः परिहारतपो दीयते इति ॥ सू० २४ ॥ पूर्वसूत्रे पारिहारिकाऽपारिहारिकाणामाहारादिसंभोगे विधिः प्रतिपादितः, साम्प्रतं पारिहारिकस्तपश्चरणेन क्षीणशरीरो भवेत् तेन तस्य विकृतिकाहारग्रहणमावश्यकमिति तस्मै अशनादिदाने विधिमाह-'परिहारकप्पट्ठियस्स' इत्यादि । सूत्रम्-परिहारकप्पद्वियस्स भिक्खुस्स णो कप्पइ असणं वा पाणं वा खाइम वा साइमं वा दाउं वा अणुप्पदाउं वा, थेराण वएज्जा इम ता अज्जो! तुम एएर्सि देहि वा अणुप्पदेहि वा एवं से कप्पइ दाउं वा अणुप्पदाउं वा कप्पइ से लेवं अणुजाणावित्तए अणुजाणह भंते ! लेवाए एवं से कप्पइ लेवं समासेवित्तए ॥सू०२६॥ छाया-परिहारकल्पस्थितस्य भिक्षोनों कल्पते अशनं वा पानं वा खाद्यं वा स्वाधं वा दातुं वा अनुप्रदातुं वा, स्थविराः खलु वदेयुः इमं तावत् हे आर्य ! त्वमेतेभ्यो देहि वा अनुप्रदेहि वा, एवं तस्य कल्पते दातुं वा अनुप्रदातुं वा, कल्पते तस्य लेपमनुज्ञापयितुम्, अनुजानीत भदन्त ! लेपाय एवं तस्य कल्पते लेपं समासेवितुम् ॥ सू० २५ ॥ भाष्यम्-'परिहारकप्पद्वियस्स' परिहारकल्पस्थितस्य परिहारकल्पे परिहारनामतपोविशेषे स्थित इति परिहारकल्पस्थितः, तस्य परिहारतपसो वहनं कुर्वतः परिहारकल्पस्थितस्य समापन्नपरिहारतपम इत्यर्थः 'भिक्खुस्स' भिक्षोः 'नो कप्पइ' नो कल्पते 'असणं वा पाणं वा खाइमं वा साइमं वा' अशनादिचतुर्विधाहारवस्तुजातं 'दाउं वा अणुप्पदाउं वा दातुं वा अनुप्रदातु वा परिहारकल्पस्थितस्य भिक्षोः अशनादिकं वस्तुं दातुं स्वहस्तेन न कल्पते न वा अनुप्रदातुं परम्परयाऽन्यसकाशाद् वा दापयितुम् । अनुप्रदातुमित्यत्राऽनुशब्दः परंपरार्थबोधकः, तेन साक्षादपि दातुं न कल्पते न वा परम्परया दातुं कल्पते इत्यर्थः । एवं किं सर्वथा न कल्पते ? इत्यत्राह-'थेरा णं' इत्यादि, 'थेरा ण वएज्जा' स्थविराः खलु वदेयुः-यदि पुनः स्थविराः गगनायकाः कश्चित् साधु वदेयुराज्ञापयेयुः । किं वदेयुः ? तत्राह-'इमं
SR No.009358
Book TitleVyavaharasutram evam Bruhatkalpsutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, agam_bruhatkalpa, & agam_vyavahara
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy