SearchBrowseAboutContactDonate
Page Preview
Page 661
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिकाटीका० प्रा० १८ सू.१ भूमितः सूर्यचन्द्रयोरुच्चत्व निरूपणम् ६३३ एवं पूर्वोक्तप्रकारेण आहुः ।२४। अथ पञ्चविंशतितमा प्रतिपत्तिं सूत्रकार एव साक्षादाह-'एगे पुण' इत्यादि-एके पञ्चविंशतितमप्रतिपत्तिवादिन, पुनः 'एवमाहंसु' एवं वक्ष्यमाणप्रकारेण आहुः-कथयन्ति-'पणवीसं जोयणसहस्साई' पञ्चविंशति योजनसहस्राणि 'सरिए सूर्यः 'उड्डे' ऊर्ध्वं भूमिभागात् 'उच्चत्तेणं' उच्चत्वेन उच्चत्वमाश्रित्य चारं चरति, 'अद्धछब्बीसं चंदे'. अर्द्धपड्विंशानि अर्द्ध पड्विंशं यत्र 'तानि सार्दानि पञ्चविंशति योजनसहस्राणि ऊर्ध्वमुच्चत्वेन चन्द्रश्चारं चरति । उपसंहारमाह-एगे' एके पञ्चविंशतितमप्रतिपत्तिवादिनः ‘एवं' एवम्-पूर्वोक्तप्रकारेण 'आहंसु' आहु कथयन्ति २५। तदेवमुक्ताः पञ्चविंशतिः परतीर्थिकप्रतिपत्तयः । साम्प्रतं भगवान् स्वमतं प्रदर्शयति-'वयं पुण' इत्यादि, वयं पुनः वयं तु "एवं' एवं वक्ष्यमाण प्रकारेण 'वयामो' वदामः कथयामः । तदेवाह-'ता इमीसे' इत्यादि, 'ता' तावत् 'इमीसे' अस्याः प्रसिद्धायाः 'रयणप्पभाए पुढवीए' रत्नप्रभायाः पृथिव्याः 'बहुसमरमणिज्जाओ भूमिभागाओ' बहुसमरमणीयात्-समतलरूपात् भूमिभागात् 'सत्तणउयाई जोयणसयाई सप्तनवतानि योजनशतानि नवत्यधिकानि सप्तशतानि (७९०) योजनानाम् 'उडूढ' उर्व भूमि भागात् 'अवाहाए अवाधया अन्तरेण व्यवधानेन 'हेडिल्ले तारारूवे' अधस्तनं तारा रूपं ज्योतिश्चक्रं 'चारं चरई' चारं चरति मण्डलगत्या परिभ्रमणं करोति । पूर्वोक्त भूमिभागोत् नवत्यधिकसप्तशत (९७०) योजनानि ऊवं गत्वाऽत्रत एव ज्योतिश्चक्रं प्रारभते इति बोध्यम् । तथा-'अट्ठजोयणसए' अष्टौयोजनशतानि (८००) भूमिभागात् ऊर्ध्वमुत्प्लुत्य अधस्तनतारारूप ज्योतिश्चक्राद् दशयोजनानि गत्वेत्यर्थः 'अवाहाए' अबाधया व्यवधानेन 'सरियविमाणे चारं चरइ' सूर्यविमानं चारं चरति । तथा अस्या एव रत्नप्रभापृथिव्या बहुसमरमणीयभूमिभागात् 'अट्ट असीयाई जोयसयाई' अष्ट अशीतोनि योजनशतानि अशीत्यधिकानि अष्टौ योजनशतानि (८८०) 'उड्ढ' ऊर्ध्वं सूर्यविमानात् अशीतियोजनानि गत्वेत्यर्थः 'अवाहाए' अवाधया अन्तरेण 'चंदविमाणे चारं चरइ' चन्द्रविमानं चारं चरति । तथा 'णवजोयणसयाई नव योजनशतानि परिपूर्णानि नवशतयोजनानि 'उड्ढ' ऊर्ध्वमुत्प्लुत्य चन्द्रविमानात् विंशतियोजनानि गत्वेत्यर्थ. 'अवाहाए' अबाधया 'उवरिल्ले - तारारूवे' उपरितनं तारारूपं ज्योतिश्चक्रं चारं चरति । तत्र-चन्द्रविमानादूर्ध्वं चत्वारि योजनानि गत्वाऽत्र नक्षत्र विमानानि सन्ति ४, अत्रतोऽग्रे चत्वारि योजनानि गत्वाऽत्र बुधग्रहो वर्त्तते, ८ तत्रत ऊर्ध्वं त्रीणि योजनानि गत्वाऽत्र शुक्रग्रहो वर्त्तते ११, तत्रतस्त्रीणि योजनानि, ऊर्ध्वं गत्वाऽत्र बृहस्पतिग्रहो वर्तते १४, तत्रतस्त्रीणि योजनानि ऊर्ध्वं गत्वाऽत्र मङ्गल ग्रहो वर्त्तते १७, तत्रतस्त्रीणि योजनानि गत्वाऽत्र शनैश्चर ग्रहो; वर्त्तते २०, इत्येवं चन्द्रविमानाद् विंशति योजनपरिमिते क्षेत्रे बाहल्येन उपरितनं तारारूपं
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy