SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ६०६ चन्द्रप्राप्तिसूत्रे भणितव्यानि, आलापकप्रकारस्तु सुगमत्वात् स्वयमूहनीय इति । कियत्पर्यन्तमित्याह 'जाव उत्तरासाढा' यावत् उत्तराषाढानक्षत्रं तावद् भणितव्यानीति ।। ___ अथ ग्रहमधिकृत्य योगविचारः क्रियते- 'ता' 'जया णं' इत्यादि 'ता' तावत्, 'जया णं' यदा खलु 'चंद गइसमावणं' चन्द्रं गतिसमापन्नमपेक्ष्य 'गहे' ग्रहः 'गइ समावण्णे' गतिसमापन्नो भवति तदा स ग्रहः 'पुरस्थिमाए भागाए' पौरस्त्याद् भागात् पूर्वभागेन प्रथमतश्चन्द्रं 'समासाएइ' समासादयति 'समासाइत्ता' समासाद्य च 'चंदेणं सद्धिं' चन्द्रण साई जोयं जोएइ' यथा सम्भवं योगं युनक्ति 'जोय जोइत्ता' योगं युक्त्वा 'जोयं अणुपरियट्टई' योगमनुपरिवर्तयति चन्द्रयोगात् परावर्त्तते 'अणुपरियहित्ता' अनुपरिवर्त्य 'विप्पजहाई' विप्रजहाति स्वेन सह योगं परित्यजति, किंबहुना 'विगय जोई यावि भवइ' विगतयोगी योगरहितश्चापि भवति २ । अथ सूर्यमधिकृत्य नक्षत्रयोगो विचार्यते –'ता जयाणं सूरियं' इत्यादि, 'ता' तावत् 'जयाणं' यदा खलु 'सूरियं' सूर्य 'गइसमावणं' गतिममापन्नमपेक्ष्य 'अभीईणक्खत्ते' अभिजिन्नक्षत्रं 'गइसमावण्णे' गतिसमापन्नं भवति तदा तदाभिजिन्नक्षत्र प्रथमतः 'पुरस्थिमाएभागाए' पौरस्त्याद् भागात् पूर्वभागतः सूर्य 'समासाएई' समासादयति प्राप्नोति 'समासाइत्ता' समासाद्य 'चत्तारि अहोरत्ते' चतुरः परिपूर्णान् अहोरात्रान् पश्चमस्य चाहोरात्रस्य 'छच्चमुहुत्ते पट् मुहर्त्तान् यावत् 'मूरिएण सद्धि' सूर्येण साथै 'जोयं जोएइ' योगं युनक्ति एतावत्प्रमाणकालपर्यन्तं सूर्येण सार्द्धमभिजिन्नक्षत्रं चारं चरतीतिभावः 'जोयं जोइत्ता' योगं युक्त्वा पण्मुहूर्ताधिकचतुरहोरात्रपर्यन्तं सूर्येण साई स्थित्वाऽन्तिमसमये 'जोयं अणुपरियट्टइ' योगमनुपरिवर्त्तयति सूर्ययोगात् परावर्त्तते 'जोयं अणुपरियट्टित्ता' योगमनुपरिवर्त्य श्रवणनक्षत्रस्य योगं समर्प्य 'विप्पजहाद' विप्रजहाति स्वेन सह योगं परित्यजति, एतावदेव न 'विगयजोईयावि भवई' विगतयोगि योगरहित चापि भवति । ‘एवं' एवम् अनेन प्रकारेण यस्य यावन्तोऽहोरात्रादिकास्तावन्तोऽत्र वाच्याः तथाहि-'अहोरत्ता छ एक्कवीसं मुहुत्ताय' अहोरात्राः षट् एक विंशतिश्च मुहूर्ता चन्द्रयोगमपेक्ष्य पञ्चदशमुहर्त्तात्मकानां शतभिपग-भरण्याः ऽश्लेपा स्वातिज्येष्ठात्यानां पण्णां नक्षत्राणां वाच्याः 'तेरस अहोरत्ता वारसमुहुत्ताय' त्रयोदशाहोरात्रा द्वादशमुहर्ताश्च त्रिंशन्मुहुर्तात्मकानां श्रवण-धनिष्ठा-पूर्वभाद्रपदा-रेवत्यश्विनी-कृत्तिका-मृगशीर्ष-पुष्यमघा-पूर्व फाल्गुनी-हस्त-चित्रा-ऽनुराधा-मूल-पूर्वापाढाख्यानां पञ्चदशानां नक्षत्राणा वाच्याः । 'वीम अहोरत्ता निण्णिमुहुनाय' विंशतिरहोरात्राः त्रयो मुहूर्ताश्च पञ्चचत्वारिंशन्मुहूर्तात्मकानाम् - उत्तराभाद्रपदा-रोहिणी-पुनर्वसू-त्तराफाल्गुनी विशाखोत्तराषाढाख्याना पण्णां नक्षत्राणां वाच्याः । अभिजितस्तु अहोगात्रादिकाः पूर्वसूत्रे एव कथिताः । एवं 'सव्वे भाणियव्या' सर्वाणि नक्षत्राणि सूर्ययोगमाश्रित्य क्रमेण भणितत्र्यानि 'जाव' यावत् यावत्पदेन उत्तरापाढापर्यन्तानि । तत्रोत्तरा
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy