________________
। '
चन्द्रप्राप्तिसूत्रे
रायोदिकेनापवर्तनायां लब्धास्त्रयोदश सप्तपष्टिः
क्तञ्च
६७
"तेरसय मंडलाणिय, तेरस सत्तहि चेव भागाय। । । अगणेण चरइ सोमो; नक्खत्तेणऽद्धमासेणं ॥१॥ छाया-त्रयोदश च मण्डलानि च, त्रयोदश सप्तपष्टिश्चैव भागाश्च । अयनेन (एकेन) चरति सोमः, नक्षत्रेणार्द्धमासेन ॥ इति ।
एतच्च सामान्येन प्रोक्तं, विशेषविचारणायां तु एकस्य चन्द्रस्य , युगगते प्रथमेऽयने पूर्वोक्तेन प्रकारेण दक्षिणभागादभ्यन्तरं प्रवेशे द्वितीयादीनि एकान्तरितानि चतुर्दशपर्यन्तानि सप्तमर्द्धमण्डलानि प्राप्यन्ते, एवम्-उत्तरभागादभ्यन्तरप्रवेशे, च तृतीयादीनि एकान्तरितानि त्रयोदशपर्यन्तानि पडूमण्डलानि परिपूर्णानि अर्द्धमण्डलानि, सप्तमस्य तु, पञ्चदश मण्डलगतस्य अर्द्धमण्डलस्य त्रयोदश सप्तपष्टिभागाः (१३।१-३) भवन्तीति सर्वं पूर्व सविस्तर प्रदर्शितमेवेति । यथा प्रथमे चन्द्रायणे एकस्य चन्द्रस्य यावन्ति दक्षिणभागाद् उत्तरभागाच्च अभ्यन्तर प्रवेशेऽर्द्धमण्डलानि साक्षात् प्रदर्शितानि तदनुसारेणैव द्वितीयस्यापि चन्द्रस्य तस्मिन्नेव प्रथमे चन्द्रायणेऽर्द्धमण्डलानि भवन्ति तथाहि-सपाश्चात्य युगपरिसमाप्तिचरमदिवसे दक्षिणदिग्भागे सर्ववाह्यमण्डले चारं चरित्वा भभिनवस्य युगस्य प्रथमेऽयने प्रथमेऽहोरात्रे उत्तरस्यां दिशि द्वितोयमर्द्धमण्डलं प्रविश्य चार चरति, द्वितीयेऽहोरात्रे दक्षिणस्यां दिशि सर्वबाह्यात् मण्डलात् तृतीयमर्द्ध मण्डलं प्रविश्य चारं चरति, तृतीयेऽहोगत्रे उत्तरस्या दिशि चतुर्थमर्द्धमण्डलं प्रविश्य चारं चरति, इत्यादि प्रागुक्तानुसारेणैव सकलमपि वक्तव्यम् । पूर्ववदस्यापि द्वितीयस्य चन्द्रस्य प्रथमेऽयने उत्तरभागादभ्यन्तरप्रवेशे द्वितीयादीनि एकान्तरितानि चतुर्दशपर्यन्तानि सप्त अर्द्धमण्डलानि भवन्ति, एवं दक्षिणभागादभ्यन्तरप्रवेशे च तृतीयादीनि एकान्तरितानि त्रयोदश पर्यन्तानि पदममण्डलानि, तदुपरि पञ्चदशस्य चार्द्धमण्डलस्य त्रयोदश सप्तपष्टिभागा भवन्ति, तत आगतम्-त्रयोदशमण्डलानि परिपूर्णानि, चतुर्दशस्येति पञ्चदशस्य मण्डलस्य त्रयोदश सप्त पष्टिभागाः (१३१३ ) इति ।
एवं च सनि च चन्द्रार्द्धमास-नाक्षत्रार्द्धमासयोर्न समानत्वमिति सूत्रकार. प्रदर्शयति'ता णयग्यत्त' इत्यादि, 'ता' तावत् 'नक्खत्ते अद्धमासे' यः नाक्षत्रोऽर्द्रमासः 'नो चंदे अद्धमासे' नो चान्द्रोऽर्द्रमासो भवति । अत्र कश्चित् शहते-नाक्षत्रोऽर्धमासश्चान्द्रोऽर्धमासो न भवति, इति मन्ये किन्तु यश्चान्द्रोऽर्धमासः सतु कटाचितू नाक्षत्रोऽप्यर्धमासो भवितुमर्हति