SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ ५५४ चन्द्रप्राप्तिस्त्रे ६६६ भागस्य एकचत्वारिंशत् सप्तषष्टिभागाः (३/१४१), तत्र एकनवति द्वापष्टिभागेभ्यो द्वापष्टया द्वापष्टिभागैरेको मुहूर्तों लब्धः स च पूर्वस्थिते त्रिकरूपे मुहूर्तराशौ क्षिप्यते, जातास्ते चत्वारो मुहूर्ताः, शेषाः स्थिताः एकोनत्रिंशद् द्वापष्टिभागाः, ततो जायन्ते चत्वारो मुहूर्ताः, एकस्य च मुहूर्तस्य एकोनत्रिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य एकचत्वारिंशत् सप्तपष्टि भागाः (--) एते च मुहूर्तादिकाः रेवती नक्षत्रस्यातिक्रान्तास्तत मागतम्-रेवती नक्षत्रस्य त्रिंशन्मुहूर्तात्मकत्वात् तस्य पञ्चविंशतौ मुहूर्तेषु द्वात्रिंशति द्वापष्टिभागेषु षड्विंशतौ सप्तषष्टिभागेषु ( २५३२२६ ) सूत्रोक्तेषु शेषेषु सत्सु चन्द्रश्चतुर्थी श्राविणीमावृत्ति प्रवर्त्तयतीति सिद्धम् ४ । . सम्प्रति तत्समयगतं सूर्यनक्षत्रयोग प्रदर्शयति-'तं समयं च णं' इत्यादि, 'तं समयं च णं' तस्मिन् चन्द्रनक्षत्रयोगरूपे समये च खलु 'सरिए' सूर्यः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह गतः सन् चतुर्थी श्रावणीमावृत्ति 'जोएइ' 'युनक्ति प्रवर्त्तयति ? भगवानाह'ता पूसेण' तावत् पुण्येण सहगतो भूत्वा प्रवर्त्तयति । अत्र विशेषमाह-पूसस्स' पुष्यस्य पुष्यनक्षत्रस्य 'तं चेव' इति तदेव प्रथमावृत्ति प्रकरणोक्तवदेव विज्ञेयम्-पुण्यस्य एकोनविंशति मुहर्ताः, त्रिचत्वारिंशद् द्वाषष्टि भागाः, त्रयस्त्रिंशत् चूर्णिका भागाः ( १९४३३३ ) यदि शेषा भवेयुस्तदा सूर्यश्चतुर्थी श्राविणीमावृत्ति प्रवर्त्तयतीति भावः ॥४॥ अधुना पञ्चमीमावृत्ति प्रदर्शयति-'ता एएसि णं' इत्यादि, 'ता तावत् 'एएसिणं' एतेषां खलु 'पंचण्हं संवच्छराणं' पश्चानां संवत्सराणां मध्ये 'पंचम' पश्चमी 'वासिक्कि' वार्षिकी वर्षाकालभाविनीम् 'आउर्टि' भावृत्ति 'चंदे' चन्द्रः 'केणं णक्खत्तेणं' केन नक्षत्रेण सह योगमुपागतः सन् ‘जोएई' युनक्ति-प्रवर्त्तयतीति प्रश्नः । भगवानाह-'ता पुव्वाहि' इत्यादि, 'ता' तावत् 'पुव्वाहि फग्गुणीहिं' पूर्वाभ्यां फाल्गुनीभ्याम् द्वितारकत्वाद् द्विवचनं कृतं, प्राकृते द्विवचनाभावात् सूत्रे बहुवचनम्, पूर्वाफाल्गुनीनक्षत्रेण योगं कुर्वन् चन्द्रः पञ्चमी वार्षिकीमावृत्तिं प्रवर्तयतीति भावः अथास्य मुहूर्त्तादिकं प्रदर्शयति-'पुच्चाफग्गुणीणं' पूर्वाफाल्गुन्योः पूर्वाफाल्गुनीनक्षत्रस्येत्यर्थः 'बारसमुहुत्ता' द्वादशमुहूर्ताः, 'सत्तालीसं च वावद्विभागा' सप्तचत्वारिंशच्च द्वापष्टिभागाः, 'मुहुत्तस्स' एकस्य मुहूर्तस्य, तथा 'वावद्विभागं सत्तद्विहा छित्ता' द्वाषष्टिभागं च सप्तपष्टिधा छित्त्वा विभज्य एकं द्वाषष्टिभागं सप्तषष्टिधा कृत्वा तत्सम्बन्धिन. 'तेरसचुणिया भागा' त्रयोदश चूर्णिका
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy