SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३२ चन्द्रप्राप्तिसूत्रे .aaaaaaaaaamiri वृद्धयपवृद्धिभ्यां, रात्रिन्दिवानां वृद्धिमपवृद्धिं च विहाय अन्यत्र न भवति, वृद्धिरपवृद्धिश्च रात्रिन्दिवानां मर्यादया भवति मर्यादामतिक्रम्य वृद्ध्यपवृद्धी कदापि न भवतः. अतो मर्यादया पण्मासद्वयेऽपि न पश्चदशमुहर्तो दिवसो भवति, न च पञ्चदशमुहर्ता रात्रिर्भवति । ते वृद्धयपवृद्धी च कथं भवेताम् ? तत्राह-'मुहुत्ताणं चओवचएणं' मुहर्तानां पश्चदशसंख्यकानां चयेन-अधिकत्वेन वृद्धिः, अपचयेन-हीनत्वेन अपवृद्धिः कदाचित् किश्चिद्हीनपश्चदशमुहतों दिवसो भवति, कदाचित , किश्चिदधिकपञ्चदशमुहूत्तों दिवसो भवति, एवं रात्रिविपयेऽपि विज्ञेयम् , किन्तु परिपूर्णपञ्चदश. मुहूर्तो न दिवसो भवति, न च परिपूर्णपञ्चदशमुहूर्त्ता रात्रिर्भवति दिवसरात्र्योरेवमेव क्रमसद्भावात, पञ्चदशमुहूर्तानां होनाधिकत्वेन दिवसरात्री भवतः । एवम् ‘णण्णत्थ वा अणुवायगईए' नान्यत्र वा अनुपातगत्या, अनुपातगतिं विहायान्यत्र न भवति, अनुपातगतिः-अनुसारगतिः, सा चैवम्सूर्यसंवत्सरस्य सर्वे अहोरात्राः षट्पष्टयधिकशतत्रयसंख्यका (३६६) भवन्ति, पण्मासे च तदर्ध रात्रिन्दिवानां त्र्यशीत्यधिकशतं (१८३) भवति, त्र्यशीत्यधिकशततमे मण्डले पड् मुहुर्ता हानिवृद्धित्वेन प्राप्यन्ते तदा तदर्धे कृते त्रयो मुहर्ता हानिवृद्धित्वेन लभ्यन्ते । इतश्च न्यशीत्यधिकशतसंख्यकाहोरात्राणामधं क्रियते तदा लभ्यते सार्धा एकनवतिः (९१) ततः एकनवतिसंख्यकेपु पूर्णतया समाप्तेषु सत्सु तदुपरि द्विनवतितमस्य मण्डलस्य चार्धे गते पञ्चदश मुहर्ता लभ्यन्ते, अहोरात्रस्य त्रिंशन्मुहूर्तप्रमाणत्वात्, ततो मण्डलस्याधैकल्पनायां पञ्चदशमुहर्तो दिवसः पञ्चदशमुहर्ता च रात्रिर्लभ्यते। सा च मण्डलार्धकल्पना कत्तु न शक्यते यतः सूर्यस्य मण्डलान्मण्डलान्तरगमनं शास्त्रसंमतं नत्वर्धमण्डलस्य विवक्षाऽपि । इयमत्र भावना-सूर्यस्य प्रत्यहोरात्रं द्वाभ्यामेकपष्टिभागाभ्यां गतिर्भवति ततः सर्वाभ्यन्तरमण्डले गते सूर्ये अष्टादशमुहूर्तो दिवसो भवति, द्वादशमुहूर्ताच रात्रिर्भवति, एवं सर्वबाह्यमण्डले गते सूर्ये अष्टादशमुहर्ता रानिर्भवति द्वादशमुहर्तश्च दिवसो भवति, तदनन्तरं सूर्यः प्रतिमण्डलमेकपष्टिभागेपु द्विभागपरिमितेन कालेन चार चरति, एतावत्प्रमाणकालेन मण्डलात् मण्डलान्तरं गच्छति, न त्वर्धमण्डलम् , एवं द्वितीयेऽहोरात्रे सर्वाभ्यन्तरमण्डलात् द्वितीयं वाह्यसम्बन्धिमण्डलं गच्छति तदा, तथा सर्व बाह्यमण्डलात् द्वितीयमाभ्यन्तरसम्बधिमण्डलं गच्छति तदा च द्वाभ्यामेकपष्टिभागाभ्यामहोरात्रस्य हानिर्वृद्धिर्वा भवति । एवं क्रमेण कृतायां योजनायां सूर्यस्य सर्वाभ्यन्तरमण्डलाहिर्गमनसमये एकनवतितमे मण्डले गते सूर्ये त्रिभिरेकषष्टिभागैरधिकः पञ्चदशमुहूत्तों (१५ ३) दिवसो भवति, अष्टपञ्चाशद्भिरेकपष्टि भागैरधिका चतुर्दशमुहूर्ता (१४- विति । एवं द्विनवतितमें मण्डले गते सूर्य एकेनैकपष्टिभागेनाधिकः पञ्चदशमुहूत्तों (१५-६६ दिवसो भवति, पष्टिसंख्यरैकषष्टि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy