________________
चन्द्राप्तिप्रकाशिकाटीका प्रा.१२ सू.१.. नक्षत्रादिसंवत्सरसंख्यादिकम् ४९९ मुहर्ताः, शेषास्तिष्ठन्त्येकादश, तत्रैकविशति मुहूर्ताः पूर्वोक्ते त्रिशदधिक त्रिशतरूपे ( ३३०) मुहूतराशौ प्रक्षिप्यन्ते, जातास्ते एक पञ्चाशदधिकत्रिशतमुहूर्ताः (३५१), एषां द्वादशभिर्भागे हूते लब्धा एकोनत्रिशन्मुहूर्ताः (२९), शेपा स्तिष्ठन्ति त्रयः, ते च द्वापष्टिभागानयनार्थ द्वापष्टया गुण्यन्ते, जातं षडशीत्यधिकमेकं शतम् (१८६) अस्मिन् राशौ ये प्रागुक्ताः शेषीभूता मुहूर्तस्याष्टादशद्वाषष्टि भागास्ते प्रक्षिप्यन्ते जाते चतुरुत्तरे द्वे शते (२०४) अस्य राशे दशभिर्भागो हियते लब्धा एकस्य मुहूत्तस्य सप्तदश द्वापष्टि भागाः (१७) तत आगतं यथोक्तमभिवर्द्धितमासस्य रात्रिन्दिवपरिमाणम् ( रा. मु. १-१) इति । अथास्य मुहूर्तान पृच्छति'ता से णं' इत्यादि, 'ता' तावत् “से णं' स - ३१२९/६२ खलु अभिवद्धितमास. 'केवइए' कियत्क. कियत्परिमितः 'मुहुत्तग्गेणं' मुहूर्ताग्रेण मुहूर्त परिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्जा' इति वदेत् वदतु हे भगवन् । भगवानाह 'ता णव' इत्यादि 'ता' तावत् ‘णव एगूणसट्ठाई मुहुत्तसयाई' नव एकोनपष्टानि एकोन षष्टयधिकानि मुहूर्तगतानि 'सत्तरसवावद्विभागा' सप्तदशद्वापष्टिभागाः 'मुहुत्तस्स' एकस्य मुहर्तस्य
'मुहुत्तग्गेणं' मुहूर्ताग्रेण मुहूर्तपरिमाणेन 'आहिए' आख्यातः 'तिवएज्जा'
इति वेदत् स्वशिष्येभ्यः । तथाहि-अभिवर्द्धितमासस्य रात्रिन्दिवपरिमाणम् (रा. मु. १७) एकस्य रात्रिन्दिवस्य त्रिंशन्मुहूर्तात्मकत्वात् त्रिशता गुण्यते, तत्र पूर्वमेकत्रिंशद् रात्रिन्दिवानि त्रिंशता गुण्यते जातानि त्रिंशदधिकानि नवशतानि (९३०) मुहूर्तानाम् , अत्रोपरितना ये एकोनत्रिंशन्मुहूर्तास्ते प्रक्षिप्यन्ते जाता एकोनपष्टयधिकनवशतमुहूर्ताः (९५९), ये उपरितनाः सप्तदश सप्तषष्टिभागाः (१७) ते तथैव स्थिता इति समागताऽभिवर्द्धितमासस्य यथोक्ता (९५९१) मुहूर्त्तसंख्येति । अथाभिवर्द्धितसवत्सरस्य कालमानमाह-'ता एस णं' इत्यादि, 'ता' तावत् 'एस णं' एपा खल रात्रिन्दिवरूपा मुहूर्तरूपा च 'अद्धा' अद्धा कालः 'दुवालसखुत्तकडा' द्वादशकृत्वः कृता द्वादशवारैर्गुणिता 'अभिवढिए संवच्छरे' एकः अभिवर्द्धितः अभिवर्द्धिताभिधः संवत्सरो भवतीति । अथास्य रात्रिन्दिवानि पृच्छति-'ता सेणं' इत्यादि, 'ता' तावत् 'से णं' स खल अभिवर्द्धितसंवत्सरः 'केवइए' कियत्कः कियत्परिमितः 'राइंदियग्गेणं' रात्रिन्दिवाण रात्रिन्दिवपरिमाणेन 'आहिए' आख्यातः कथितः 'तिवएज्ज्ग' इति वदेत् वदतु हे भगवन् ! भगवानाह- 'ता तिण्णि' इत्यादि, 'ता' तावत् 'तिणि तेसीयाई राई