SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १-१ सू०४ आदित्यसंवत्सरनिरूपणम् २५ मण्डलात् तदनन्तर मण्डल संझामन्२ द्वौ द्वौ एकपष्टिभागमुहत्तौँ एकैकस्मिन् - मण्डले दिवसक्षेत्रस्य निर्वर्धयन्२ रजनीक्षेत्रस्य अभिवर्धयन्२ सर्ववाह्य मण्डलमुपसंक्रम्य चार चरति । तावत् यदा खलु सूर्यः सर्ववाहां मण्डलमुपसंक्रम्य चार चरति तदा खलु सर्वाभ्यन्तर मण्डल प्रणिधाय पकेन व्यशीतिकेन रात्रिदिवशतेन त्रीणि पट्पष्टिः एकपष्टिभागमुहर्त्तशतानि दिवसक्षेत्रस्य निर्वयं, रात्रिक्षेत्रस्य अभिवर्ध्य चारं घरति तदा खलु उत्तमकाष्ठम्राप्ता उत्कर्पिका अष्टादशमुहर्ता रात्रिर्भवति, जघन्यको द्वादशमुहत्तों दिवसो भवति । एतत् खलु प्रथमं पण्मासम् । एतत् खलु प्रथमस्थ पण्मासस्य पर्यवसानम् । अथ प्रविशन् सूर्यों द्वितीयं पण्मालम् अयन् प्रथमेऽहोरात्रे वाह्यानन्तर मण्डलमुपसंक्रम्य चार चरति । तावत् यदा खलुसूर्यः बाह्यानन्तर मण्डलमुपसंक्रम्य चार चरति तदा खलुअष्टा. दशमुहर्ता रात्रिर्भवति द्वाभ्यामेकपप्टिभागमुहर्ताभ्यामूना,द्वादशमुहत्तौ दिवसो भवति द्वाभ्यामेकपप्टिभागमुहर्ताभ्यामधिकः । अथ प्रविशन् सूर्यो द्वितीयेऽहोरात्रे वाह्य तृतीय मण्डलमुपसंक्रम्य चार चरति । तावत् यदा खलु सूर्यो वाह्य तृतीय मण्डमुपसंक्रम्य चार चरति तदा खलु अष्टादशमुहर्ता रात्रिर्भवति चतुभिरेकपष्टिभागमुहतैरूना, द्वादशमुहत्तों दिवसो भवति चतुभिरेकपाटिभागमुहत्तरधिकः। एवं खलु पतेन उपायेन प्रविशन् सूर्य: तदन्तरात् मण्डलात् नदनन्तरं मण्डलं संक्रामन्२ द्वौ द्वौ एकपप्टिभागमुहत्तौ एकस्मिन् मण्डले रात्रिक्षेत्रस्य निर्वर्धयन २ दिवसक्षेत्रस्य अभिवर्धयन्२ सर्वाभ्यन्तरमण्डलसुपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः सर्ववाहात् मण्डलात् सर्वाभ्यन्तर मण्डलमुपसंक्रम्य चार चरति तदा खलु सर्ववाह्यमण्डलं प्रणिधाय एकेन ज्यशीतिकेन रात्रिदिवशतेन त्रीणि पट्पष्टिः एकपष्टिभागमुहर्त्तशतानि रात्रिक्षेत्रस्य निर्वयं, दिवसक्षेत्रस्याभिवर्थ्य चार चरति तदा खलु उत्तमकाष्ठाप्राप्तः उत्कर्षकः अष्टादशमहत्तों दिवसो भवति, जघन्यिका द्वादशमुहर्ता रात्रिर्भवति । एतत् खलु द्वितीयं पण्मासम् , एतत् खलु द्वितीयस्य यण्मासस्य पर्यवसानम् , एप खलु आदित्यसंवत्सरः । एतत् खलु आदित्यसंवत्सरस्य पर्यवसानम् ॥ सू० ॥ इति खलु तस्यैवम् आदित्यसंवत्सरस्य सकृत् अष्टादशमुहूतौ दिवसो भवति, सकृत् अष्टादशमुहर्ता रात्रिर्भवति, सकृत् हादशमुहर्तो दिवसो भवति, सकृत् द्वादशमुहर्ता रात्रि र्भवति । प्रथमे पण्मासे अस्ति अष्टादशमुहर्ता रात्रिः, नास्ति अष्टादशमुहतों दिवसो भवतिः अस्ति द्वादशमुहत्तौ दिवसः, नास्ति द्वादशमुहर्ता रात्रिर्भवति । दितीये पण्मासे अस्ति अष्टादशमुहत्तौ दिवसः, नास्ति अष्टादशमुहर्ता रात्रिर्भवति, अस्ति द्वादशमुहर्ता रात्रिः, नास्ति द्वादशमुहतों दिवसो भवति । प्रथमे वा पण्मासे दितीये वा षण्मासे नास्ति पञ्चदशमुहत्तों दिवसः, नास्ति पञ्चदशमुहर्ता राधिर्भवति-नान्यत्र रात्रिन्दिवानां वृद्धयपवृद्धिभ्यां मुहर्तानां चयोपचयेन, मान्यत्र वा अनुपातगत्या ॥ सू०४॥ । प्रथपस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं समाप्तम् ॥ १-१॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy