SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ४०८ चन्द्रप्राप्तिसूत्रे पूर्वोक्त पञ्चसंवत्सरगतमासाहोरात्रपरिमाणप्रतिपादिका वृद्धसम्प्रदायोक्तास्तिस्रो गाथा अत्र प्रदश्यन्ते, तथाहि "अइच्चो खलु मासो, तीसं अद्धं च सावणो तीसं । चंदो एगुणतीसं विसद्विभागा य बत्तीसं ॥१॥ नक्खत्तो खलु मासो, सत्तावीसं भवे अहोरत्ता । असा य एक्कवीसा, सत्तट्टिकरण छेएण ॥२॥ अभिवढिओ य मासो, एक्कतीसं भवे अहोरत्ता । भागसय मेक्कवीसं, चउवीससएण छेएण ॥३॥ छाया-आदित्यः खलु मासः, त्रिंशद् अर्धं च (अहोरात्राः) सावनस्विंगत् । चान्द्र एकोनत्रिंशत् द्वापष्टिभागाश्च द्वात्रिंशत् ॥१॥ नाक्षत्रः खलु मासः, सप्तविंशतिभवेद् अहोरात्राः । अंशाश्च एकविंशतिः सप्तपष्टिकृतेन छेदेन ॥२॥ अभिवर्धितश्च मासः, एकत्रिंशद् भवेद् अहोरात्राः । । भागशतमेकविंशतिः चतुर्विशतिशतेन छेदेन ॥३॥ इन्ति । पुतैरेव पञ्चभिः संवत्सरैरेकं प्रागुक्तस्वरूपं युगं भवति, अथैतत् पञ्चसंवत्सरात्मकं युगं मासानधिकृत्य प्रमीयते, तत्र युगप्रागुक्तस्वरूपं यदि सूर्यमासैविभज्यते तदा पष्टि सूर्यमासात्मकं युगं भवति, तथाहि-सूर्यमासे सार्धास्त्रिंशद् अहोरात्रा भवन्ति, ते चैकस्मिन् युगे त्रिंशदधिकाष्टादशशतसंख्यकाः (१८३०) भवन्ति । कथमेतद् ज्ञायते ? इति चेदुच्यते-- अत्र युगे त्रयश्च संवत्सराः, द्वौचाभिवर्धितसंवत्सरी, एवं पञ्च संवत्सरा भवन्ति । एकैक स्मिंश्च चन्द्रसंवत्सरे चतुप्पञ्चाशदधिकानि त्रीणि शतानि (३५४) अहोरात्राणां भवन्ति, तदुपरि एकस्य चाहोरात्रस्य द्वादश द्वापष्टिभागाः (३५४-) भवन्ति, तत एष राशिः अकस्मिन् युगे चन्द्रसंवत्सराणां त्रिकत्वात् त्रिभिर्गुण्यते, जातानि द्वापट्याधिकानि दशशतानि अहोरात्राणाम्, एकस्य चाहोरात्रस्य पत्रिंशद् द्वापष्टिभागाः (१०६२२६), तथा – अभिवर्द्धित संवत्सरौ चात्र द्वौ, एकैकस्मिन् अभिवर्द्धितसंवत्सरे चाहोरात्राणां त्र्यशीत्यधिकानि त्रीणि शतानि, चतुश्चत्वारिंशच्च टापष्टि भागा एकस्याहोरात्रस्य (३८३४१) ततोऽमिवर्धितसवत्सरावत्र द्वाविति एष राशि म्या गुण्यते जातानि सप्तपष्टयधिकानि सप्तशतान्यहोत्राणाम्, एकस्य चाहोरात्रस्य पद ६२
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy