SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे दिवसानां 'पण्णरसणामधेज्जा' पञ्चदशनामधेयानि नामानि 'पण्णत्ता' प्रज्ञप्तानि 'तं जहा' तद्यथा तानि यथा-'पुन्चंगे' इत्यादि पुच्चंगे पूर्वाङ्ग प्रतिपदा दिवसस्य पूर्वाङ्ग इति नाम १। सिद्धमणोरमे य' सिद्वमनोरमश्च द्वतीयादिवसस्य सिद्धमनोरमा इति नाम 'ततो' ततः तदनन्तरं 'मणोहरो चेव' मनोहरचैव तृतीयादिवसस्य मनोहर इति नाम ३। अनेन क्रमेण चतुर्थी दिवसस्य यशोभद्रो नाम, इत्यारभ्य पञ्चदशी दिवसस्य-पूर्णिमा दिवसस्य अमावास्या दिवसस्य च उपशम इति नाम, इत्यन्तं सर्व स्वयमूहनीयम् । अत्र पूर्णिमा अमावास्या चेति द्वयोर्ग्रहणार्थ सूत्रकृता 'पण्णरसी दिवसे' पञ्चदशी दिवसः, इत्युक्तम् तयोः प्रतिपक्षं पञ्चदशत्वात् । शेप स्पष्टम् । अथ रात्रीणां नामान्याह-ता कहते राईओ' इत्यादि । 'ता' तावत् 'कह' कथं केन क्रमेण 'ते' त्वया 'राईओ' रत्र्यः 'आहिया' आख्याताः 'ति वएज्जा' इति वदेत् पदतु कथयतु हे भगवन् ? एवं गौतमेन पृष्टे भगवानाह 'ता एगमेगस्स णं' इत्यादि । 'ता' तावत् 'एगमे गस्स णं पक्खस्स' एकैकस्य पक्षस्य 'पण्णरस' २ पञ्चदश पञ्चदश 'राईओ पण्णत्ताओ' रात्र्यः प्रज्ञप्ताः 'तं जहा' तद्यथा-ता यथा-'पडिवयाराई प्रतिपदा रात्री । 'वितियाराई' द्वितीया रात्री २, 'जाव' यावत् 'पण्णरसीराइ' पञ्चदशी रात्रो, अत्रापि यावत्पदेन तृतीया रात्री ३ चतुर्थी रात्री ४, इत्यादि क्रमेण 'चतुर्दशीरात्री' इत्यन्तं संग्राह्यम् । अत्र द्वितीयारात्री' इत्यादिपदैः द्वितीया-तृतीयादि तिथयो बोन्या न तु सख्येति । अथ रात्रीणां नामान्याह-'ता एयासि एं' इत्यादि । 'ता' तावत् 'एयासि णं' एतासां वक्ष्यमाणानां 'पण्णरसण्ह' पञ्चदशानां 'राईणं' रात्रीणां 'पण्णरस नामधेज्जा पण्णत्ता' पञ्चदश नामधेयानि नामानि प्रज्ञप्तानि 'तं जहा' तद्यथा-उत्तमा य उत्तमा च प्रथमा-प्रतिपत्सम्बन्धिनी रात्री रुत्तमा-उत्तमानाम्नी भवति । 'मुणक्खत्ता' सुनक्षत्रा द्वितीया सम्वन्धिनी रात्री सुनक्षत्रा कथ्यते २। एवं क्रमेण तृतीयात आरभ्य पञ्चदशी रात्री 'देवाणंदा' देवानन्दा इत्यन्तं स्वयमूहनीयम् । अस्य व्याख्या छायागम्याऽतो न विवियते ॥सू० १॥ ॥इति चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रज्ञप्तिप्रकाशिका व्याख्याया दशमस्य प्राभृतस्य चतुर्दश प्रामृत प्रमृतं समाप्तम् ॥१०॥१४॥ दशमस्य प्राभृतस्य पञ्चदशं प्राभृतप्राभृतम् । गतं चतुर्दश प्रामृतप्राभृतम् तत्र पञ्चदशानां दिवसानां, पञ्चदशानां रात्रीणां च नामानि प्रदर्शितानि । अथ पञ्चदशं प्राभृतप्राभृतं प्रारभ्यते अत्र दिवसतिथि रात्रितिथीनां च नामानि विक्तुं सूत्रमाह-'तं कहते तिही' इत्यादि ।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy