SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३५२ चन्द्रप्रक्षप्तिसूत्रे 'वण्हुदेवयाए' विष्णु देवताकं 'पण्णत्त' प्रज्ञप्तम् श्रवणस्याधिष्ठाता विष्णुनामको देवोऽस्तीति । 'एवं' एवम्-अनयैव रीत्या 'जहा जंबुद्दीवपण्णत्तीए' यथा जम्बूद्वीपप्रज्ञप्त्यां-जम्बूद्वीप प्रज्ञप्तिसूत्रे कथिनं तथैवात्रापि वाच्यम् । कियत्पर्यन्त मित्याह- 'जावे' इत्यादि, यावत् 'उत्तरासाढाणक्खत्ते विमुदेवयाए पण्णत्ते' उत्तरापाढनक्षत्रं विष्वग्देवनाकं प्रज्ञप्तम् । अत्र 'जावें' ति यावत्पदेन धनिष्ठा नक्षत्राटारभ्य पूर्वापाढानक्षत्रपर्यन्तानां मध्यमानां पञ्चविंशतिनक्षत्राणां देवतानामानि जम्बूद्वीपप्रज्ञप्तितोऽवगन्तव्यानि, तथाहि--"धणिहा णक्खत्ते वसुदेयाए पण्णते ३, सयभिसया णक्खत्ते वरुणदेवयाए पण्णत्ते ४, पुव्यापोट्टवया णक्खत्ते अयदेवयाए पण्णत्ते ५, उत्तरपीद्ववया णक्खत्ते अभिवइढिदेवयाए पण्णत्ते ६, रेवई णक्खत्ते पुस्स देव याए पण्णत्ते ७, अस्सिणी णक्खत्ते अस्सदेवयाए पण्णत्ते ८, भरणी णक्खत्त जमदेवयाए पण्णत्ते ९, कत्तिया णक्खत्ते अग्गिदेवयाए पण्णत्ते १० रोहिणी णक्खत्ते पयावइदेवयाए पण्णत्ते ११, संठाणा णक्खत्ते सोमदेवयाए पण्णत्ते १२, अदा णक्खत्ते रुहदेवयाए पण्णत्ते १३. पुणव्वमु णक्खत्ते अदिइ देवयाए पण्णने १४, पुस्स णक्खत्ते वहस्सइदेवयाए पण्णत्ते १५, अस्सेसा णक्खत्ते सप्पदेवयाए पण्णत्ते १६, मघा णक्खत्ते, पिडदेवयाए पण्णत्ते १७ पुचाफग्गुणी णक्खत्ते भगदेवयाए पण्णत्ते १८, उत्तराफग्गुणी णक्खत्ते अज्जमदेवयाए पण्णत्ते १९, हत्थे सविइदेवयाए पण्णत्ते २०, चित्ता णक्खत्ते तहदेवयाए पण्णत्ते २१, साइ णक्खत्ते वाउ देवयाए पण्णत्त २२, विसाहा णक्खत्ते इंदग्गिदेवयाए पण्णत्ते २३, अणुराहा णक्खत्ते मित्तदेवयाए पण्णत्ते २४, जेटा णखत्ते इंददेवयाए पण्णत्ते २५, मूल णक्खत्ते गिरईदेवयाए पण्णत्ते २६, पुब्बासाढा णक्खत्ते आउ देवयाए पण्णत्ते २७।" छाया-धनिष्ठा नक्षत्रं वसुदेवताकं प्रज्ञप्तम् ३, शतभिपग नक्षत्र वरुणदेवताकं प्रज्ञप्तम् ४, पूर्वाप्रोष्ठपदा नक्षत्रम् अजदेवताकं प्रज्ञप्तम् ५, उत्तराप्रोष्ठपदा नक्षत्रम् अभिवृद्विदेवताकं प्रज्ञप्तम् ६, रेवतीनक्षत्रं पुष्यदेवताकं प्रज्ञप्तम् ७, अश्विनीनक्षत्रम् अश्व (अश्वमुख) देवताकं प्रज्ञप्तम् ८, भरणीनक्षत्रं यमदेवताकं प्रज्ञप्तम् ९, कृत्तिकानक्षत्रम् अग्नि देवताकं प्रज्ञप्तम् १०, रोहिणीनक्षत्रं प्रजापति देवताकं प्रज्ञप्तम् ११, संस्थान (मृगशिरो) नक्षत्रं सोमदेवताकं प्रज्ञप्तम् १२, आर्द्रानक्षत्रं रुद्रदेवताकं प्रज्ञप्तम् १३, पुनर्वसुनक्षत्रम् अदिति देवताकं प्रज्ञप्तम् १४, पुण्यनक्षत्रं बृहस्पतिदेवताकं प्रज्ञप्तम् १५, अश्लेपानक्षत्रं सर्पदेवताकं प्रज्ञप्तम् १६, मघानक्षत्रं पितृदेवताकं प्रज्ञप्तम् १७, पूर्वाफाल्गुनीनक्षत्रं' भगदेवताकं प्रज्ञप्तम् १८, उत्तराफाल्गुनीनक्षत्रम् अयेमदेवताकं प्रज्ञप्तम् १९, हस्तनक्षत्रं सवितृदेवताकं प्रज्ञप्तम् २०, चित्रानक्षत्रं त्वष्टदेवताकं प्रज्ञप्तम् २१, स्वातिनक्षत्रं वायु देवताकं प्रजप्तम् २२, विशाखानक्षत्रम् इन्द्राग्नि देवताकं प्रज्ञप्तम् २३, अनुराधानक्षत्रं मित्रदेवताकं प्रज्ञमम् २४, ज्येष्ठानक्षत्रम् इन्द्रदेवताकं प्रज्ञप्तम् २५, मूलनक्षत्रं निरति देवताकं 'प्रज्ञप्तम् २६, पूर्वापाढा नक्षत्रम् अप देवताकं प्रज्ञप्तम् २७ । देवतानामसङ्ग्राहिका इमास्तिस्त्रो गाथाः
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy