SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे दिश प्रतिगतः । तस्मिन् काले तस्मिन् समये श्रमजस्य भगवतो महावीरस्य ज्येष्ठः __ अन्तेवासी इन्द्रभूति म अनगार गौतमगोत्रः सप्तोत्सेध यावत् पर्युपासीन. एवमवादीत् तावत् कथं ते मुहूत्तानां वृद्धयपवृद्धी च आख्याते इति वदेत् , गौतम ! तावत् ___ अष्टौ एकोनविंशतिः मुहूत्तशतानि, सप्तविंशतिश्च' सप्तपष्टिभागाः मुहूर्तस्य आख्याता इति वदेत् ॥ सू० १॥ व्याख्या- 'तेण कालेणं' तस्मिन् काले भगवद्विहरणकाले 'तेणं समएणं' तस्मिन् समये हीयमानलक्षणे चतुर्थारकरूपे 'मिहिला णाम णयरी होत्था' मिथिला नाम नगर्यासीत् । सा तदा कीदृशी मासीत् ? इत्याह-'वण्णओ' वर्णकः वर्णनप्रकार, तस्या नगर्या अत्र वर्णनं वक्तव्यम्, तच्च वर्णनम् औपपातिकसूत्रोक्तचम्पानगरीवत् 'ऋद्धस्थिमियसमिद्धा' इत्यादिनगरीवर्णनं सर्वमत्र वाध्यम् । 'तीसे थे' तस्याः खलु 'मिहिलाए णयरीए' मिथिलाया नगर्या 'वहिया' बहिः बहिर्भागे 'उत्तरपुरथिमे दिसीभाए' उत्तरपौरस्त्ये दिग्भागे उत्तरपूर्वयोरन्तराले ईशानकोणे इत्यर्थः 'एत्य णं' अत्र खलु अत्रैव नान्यत्र 'मणिभद्दे णाम चेइए' मणिभद्रं नाम चैत्यं यक्षायतनम् 'होत्था' आसीत् , कीदृग् ? इत्याह-'चिराईए' चिरातीतम् अत्यन्तातीतकालिकम् अतिपुरातनम् 'वण्णओ' वर्णकः, अस्यापि वर्णनम् औपपातिकसूत्रोक्तपूर्णभद्रचैत्यवद्विज्ञेयम् । 'तीसे णं मिहिलाए णयरीए तस्यां खलु मिथिलायां नगर्याम् 'जियसत्तू णामं राया' जितशत्रुर्नाम राना, धारणी देवी' धारणी देवी-धारणीनाम्नी पट्टराज्ञी आसीत् । 'वण्णभो' वर्णकः वर्णनमत्र वक्तव्यमिति । राजराज्ञी वर्णनमत्रौपपातिकसूत्रोक्तो वाच्यः । 'तेणं कालेणं' तस्मिन् काले जितशत्रुशासनकाले 'तेणं समएणं' तस्मिन् समये तदुपलक्षितवर्तमानसमये 'सामी' स्वामी श्रीमहावीरः 'समोसढे' समवसृतः सुखसुखेन विहरन् प्रामानुग्राम द्रवन् यथारूपमवग्रहमवगृह्य संयमेन तपसा आत्मानं भावयन् तस्मिन् मणिभद्रे चैत्ये समागतः । 'परिसा णिग्गया' परिपन्निर्गता, भगवदागमनं श्रुत्वा मिथिलानगरीतो जनसमूहो भगवद्वन्दनाथं तद्देशनाश्रवणार्थ च निर्गत-इत्यर्थः । 'धम्मो कहिओ' धर्मः कथितः अगारानगाररूपः श्रुतचारित्ररूपश्च धर्मों भगवता प्रतिपादितः, अत्रापि औपपातिकसूत्रोक्ता 'अत्थि लोए अत्थि अलोए'तथा 'जद जीवा वच्चंति' इत्यादिरूपा सर्वा धर्मदेशनाऽत्र वक्तव्या । 'परिसा पडिगया' परिपत् प्रतिगता, धर्मदेशनां श्रुत्वा परिषद् यस्या दिशाया प्रादुर्भूता तस्यामेव दिशायां प्रतिगता-गतवती । 'जाव राया जामेच दिसि पाउन्भूए तामेच दिसि पडिगए' यावत् राजा यामेव दिशमाश्रित्य प्रादुर्भूतः ता मेव दिशं प्रतिगतः, जितशत्रुराजाऽपि भगवतोऽन्तिके धर्म श्रुत्वा निशम्य दृष्टतुष्टः प्रीतिमना हर्षदशविसर्पहृदयः श्रमणं भगवन्तं महावीर प्रश्नानि पृष्ट्वा अर्थान् गृहीत्वा श्रमणं भगवन्तं महावीरें वन्दित्वा नमस्यित्वा मणिभद्राच्चैत्यात् प्रतिनिष्क्रम्य यामेव दिशमाश्रित्य प्रादुर्भूतः समागतः तामेव
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy