SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रनप्तिसूत्रे सहिते कृते एकश्चन्द्रविकम्पो भवतीति । अथ विकम्पक्षेत्रज्ञानार्थमुक्तञ्च सगमंडलेहि लद्धं सगकट्ठाओ हवंति सविकंपा । जे सगविक्खमजुया, हवंति सगमंडलंतरिया ॥१॥" संक्षेपतो व्याख्या-'जे' ये चन्द्रस्य सूर्यस्य वा विकम्पाः, कीदृशास्ते ? 'सगविक्खंभजुया' स्वकविष्कम्भयुताः 'सगमंडलंतरिया' रवकमण्डलान्तरिकाः, स्व स्व मण्डलविष्कम्पपरिमाणसहितानि स्व स्व मण्डलान्तराणि भवन्ति तानि तत्प्रमाणाः 'सगकट्ठाओ' स्वककाष्ठायाः-स्व स्व विकम्पयोग्यक्षेत्रपरिमाणस्य 'सगमंडलेहि' स्वकमण्डलैः स्व स्व मण्डलसंख्यया भागो हृते 'लद्ध' यत् लब्धं या संख्या लभ्यते तत्प्रमाणाः 'सविकंपा' स्व स्व विकम्पाः स्व स्व विकम्पक्षेत्रपरिमाणानि 'हवंति' भवन्ति ॥१॥ तदेव दर्श्यते-सूर्यस्य विकम्पक्षेत्रकाष्ठा दशोत्तरपञ्चशतयोजनानि (५१०) एपा मेकपष्टिभागाः करणीया अत एप राशि रेकपष्टया गुण्यते जातानि दशोत्तरशताधिकानि एकत्रिंशत्सहस्राणि (३१११०) एष भाज्यराशिर्जातः अथ भाजकराशिः क्रियते विकम्पक्षेत्रे सूर्यमण्डलानि च त्र्यशीत्यधिकमेकं शतं (१८३) । एतदप्येकपष्टया गुण्यते जातानि त्रिषष्ठ्यधिकशत्तोत्तराणि एकादश सहस्राणि (१११६३), एष भाजकराशिर्जातस्ततोऽनेन भाजकराशिना पूर्वस्य भाज्यराशेः (३१११०) भागो हियते.लब्धे द्वे योजने (२), स्थितानि शेपाणि चतुरशीत्य धिकानि सप्ताशीतिशतानि (८७८४) अस्य न्यूनत्त्वाद्भागो न हियतेऽत एक षष्ठिभागा आनेतव्या अत एकपष्टया गुणनात् पूर्व यो भाजकराशिः त्र्यशीत्यधिकशत १८३ रूपस्तेन भागो हरणीयः हृते च भागो लब्धा अष्टचत्वारिंशदेकपष्टिभागाः ४८ परिपूर्णाः ततो वे योजने, एकस्य च योजनस्य अष्टचत्वारिंशदेकपष्टिभागा (२४८ )एतद्-एकैकस्य सूर्यस्य एकैकाहोरात्रमाश्रित्य विकम्पक्षेत्रमापातमिति । तदेवमुक्तमेकैकसूर्यस्य एकैकाहोरात्रमाश्रित्य विकम्पक्षेत्रम् । अथ चन्द्रस्य तदेव विकम्पक्षेत्रं प्रदर्श्यते-तत्र चन्द्रस्य विक्रम्पक्षेत्रकाष्ठा नवोत्तरपञ्चशतयोजनानि, त्रिपञ्चाशदेकपष्टिभागाः (५०९५३) । एतत् पूर्व प्रदर्शिमेव । अथ एकषष्टिभागानयनार्थ पूर्व योजनानि नवोत्तर पञ्चशतानि (५०९) एकपष्टया गुण्यन्ते जातानि एकोनपञ्चाशदधिकानि एकत्रिंशत्सहस्रयोजनानि (३१०४९) तत एपु ये उपरितनाः त्रिपञ्चाशदेकषष्टिभागाः सन्ति ते प्रक्षिप्यन्ते जातानि द्वयुत्तरशताधिकानि एकत्रिंशत्सहस्रयोजनानि (३११०२), चन्द्रस्य विक्रम्पक्षेत्रे चतुर्दश मण्डलानि १४ सन्ति तत एकपष्टिगुणित विकम्पक्षेत्रकाष्ठाराशेर्भागहरणार्थ मण्डलान्यपि एकषष्टया गुण्यन्ते ततश्चतुर्दश एकपष्टया गुण्यन्ते जातानि चतुष्पञ्चाशदधिकानि अष्टशतानि (८५४) अनेन पूर्वराशे (३११०२) र्भागो हियते लब्धानि पट् त्रिंशद् योजनानि (३६), तिष्ठन्ति शेषाणि अष्टपञ्चाशदधिकानि त्रीणि शतानि (३५८) तत एकपष्टया गुणनात् पूर्व यो मण्डलसंख्यारूपो
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy