________________
चन्द्र प्रज्ञप्तिसूत्रे
३३८
सप्त सन्ति, 'तं जहा' तद्यथा तानि यथा - 'वितिए चंदमंडले' द्वितीयं चन्द्रमण्डलम् ' 'चउत्थे चंदमंडले' चतुर्थे चन्द्रमण्डलम् २, 'पंचमे चंदमंडले' पञ्चमं चन्द्रमण्डलम् ३, 'नवमे चंदमंडले' नवमं चन्द्रमण्डलम् ४, 'वारसमे चंदमंडले' द्वादशं चन्द्रमण्डम् ५, 'तेरसमे चंदमंडले' त्रयोदगं चन्द्रमण्डलम् ६, 'चउसमे चंदमंडले' चतुर्दशं चन्द्रमण्डलम् ७, |२| 'तत्थ' तत्र पञ्चदशसु चन्द्रमण्डलेषु 'जे ते चंदमडला' यानि तानि चन्द्रमण्डलानि सन्ति तेषु ' जेणं' यानि खल 'ससिरवि नक्खत्ताणं' शगिरवि नक्षत्राणां कृते 'सामण्णा' सामान्यानि सर्वसाधारणानि सर्वेषां चारयोग्यानि 'भवंति' सन्ति ' ते णं' तानी खल 'चत्तारि' चत्वारि ' 'तं जहा ' तद्यथा — तानीमानि - 'पढमे चंदमंडले' प्रथमं चन्द्रमण्डलम् १, 'वीए चंदमंडले' द्वितीयं चन्द्रमण्डलम् २, 'इक्कारसमे चंदमंडले' एकादशं चन्द्रमण्डलम् ३, 'पण्णरसमे चंदमंडले' पञ्चदशं चन्द्रमण्डलम् ४ | ३ | तथा - 'तत्थ' तत्र तेषु पश्चदशसु चन्द्रमण्डलेषु 'जे ते चंदमंडला' यानितानि चन्द्रमण्डलानि सन्ति तेषु 'जे णं' यानि खल्ल 'सया' सदा सर्वकालं दिवसे रात्रौवा 'आइच्येहि विरहिया' आदित्याम्या सूर्याभ्यां विरहितानि सूर्यमण्डलस्पर्शवर्जितानि 'तेणं' तानि खलु पञ्च' पञ्च, 'तं जहा ' तद्यथा तान यथा- 'छडे चंदमंडले' पष्ठं चन्द्रमण्डलम् १, 'सत्तमे चंदमंडले' सप्तमं चन्द्रमण्डलम् २, 'अट्टमे चंद मंडले' अष्टमं चन्द्रमण्डलम् ३, 'नवमे चंदमंडले' नवमं चन्द्रमण्डलम् ४, 'दसमे चंदमंडले' दशमं चन्द्रमण्डलम् ५, इति ।
अत्रैवं गम्यते यत्–यानि एकतः पञ्च पर्यन्तानि पञ्च १ - २ - ३ - ४ - ५ ) चन्द्रमण्डलानि सर्वाभ्यन्तराणि, तथा यानि च - एकादशत आरभ्य पञ्चदशपर्यन्तानि पञ्च (११-१२ -१३-१४-१५) चन्द्रमण्डलानि सर्ववाद्यानीत्येतानि दश चन्द्रमण्डलानि सूर्यस्यापि साधारणानि सूर्यस्यापि चारयोग्यानि सन्ति येषु सूर्योऽपि चारं चरति । शेषाणि पष्ठत आरभ्य दशपर्यन्तानि ६–७–८–९~१० पञ्च चंद्रमण्डलानि चन्द्रस्यैवासाधारणानि यतस्तत्र चन्द्र एव चारं चरति नतु कदाचिदपि सूर्य इति, उक्तञ्च
" दसचेव मंडलाई, अभिंतरवाहिरा रवि ससीणं । सामण्णाणि उ नियमा, पत्तेया होंति सेसाणि ॥ १ ॥
छाया - दश चैव मण्डलानि आभ्यन्तर - वाह्यानि रविशशिनोः । सामान्यानि तु नियमात् प्रत्येकानि भवन्ति शेषाणि ॥ १ ॥
अर्थः स्पष्टः नवरं प्रत्येकानि - एकमेकं प्रति प्रत्येकम्, तानि प्रत्येकानि - चन्द्रस्य असा - धारणानि, चन्द्रस्यैव भोग्यानि न तु कदाचिदपि सूर्यस्य । तेषु कदाचिदपि सूर्यो न गच्छतीति भावः । अत्र किम् चन्द्रमण्डलं कियता सूर्यमण्डलेन न स्पृश्यते ? तथा चन्द्रमण्डलस्यापान्तराळे