SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा०२०-६ सू० १ पुर्णिमायां नक्षत्रयोगनिरूपणम् २६७ सम्बन्धिनो द्वाविशतिर्मुहूर्तास्ते सर्वेऽपि उत्तरस्मिन् शोधनकेऽन्तः प्रविष्टाः प्रवर्तन्ते किन्तु न द्वाषष्टि भागाः, ततो यद् यच्छोधनकं शोभ्यते तत्र तत्र पुनर्वसु सम्बन्धिनः षट्चत्वारिंशद् द्वाषाष्टिभागा उपरितनाः शोधनीया इति । इदं च पुनर्वसोरारभ्य उत्तरापाढा पर्यन्तं प्रथमं शोधनकमुक्तम् , 'इत्तो' इतः अत्रतोऽग्रे 'अभिइआई' अभिजिदादिम् अभिजितमादि विधाय आदौ अभिजितं कृत्वा 'विइयं सोहणगं' द्वितीय शोधनकं 'पुच्छामि' वक्ष्यामि-कथयिष्यामि ॥६॥ तदेव गाथा चतुष्टयेन दर्शयति 'अभिइस्स' इत्यादि 'अभिइस्स' अभिजितः अभिजिन्नक्षत्रस्य शोधनकं 'नवमुहुत्ता' नवमुहूर्ताः, एकस्य च मुहूर्तस्य 'चउवीसं विसष्ठिभागा य' चतुर्विशति षष्टिभागाश्च, एकस्य च द्वापष्टिभागस्य 'सत्तहिछेयकया' सप्तषष्टिछेदकृताः 'समत्ता' समस्ताः रिपूर्णाः शेषरहितत्वात् 'छावट्ठीभागा' षट्पष्टिर्भागाः भवन्ति ।७। तथा 'अउणटुं' इत्यादि, 'अउपहुँ' एकोनषष्टम्-एकोनषष्टयधिकं शतं 'पोट्टवया' प्रोष्ठपदेति पदानाम् उत्तरभाद्रपदानां शोधनकम् , कि तात्पर्यमित्याह-एकोनषष्टयधिकेन शतेन अभिजित मारभ्य उत्तरभाद्रपदापर्यन्त षड्नक्षत्राणि शुद्धयन्ति । एवमग्रेऽपि योजना कर्तव्या। तदेवान्तिमनक्षत्रमाश्रित्य सूचयतिरोहिणिका-अश्विनीत आरभ्य रोहिणी पर्यन्तानि चत्वारि नक्षत्राणि 'तिसु चेव नवोत्तरं च' त्रिषुचैव नवोत्तरेषु च शतेषु नवोत्तराणि श्रीणि शतानि (३०९) नवोत्तरशतत्रयभागः शुद्धयन्ति । तथा 'तिसु नवनवएसु' त्रिषु नवनवतेषु नवनवत्यधिकेषु त्रिषु शतेषु नवनवोत्तरशतत्रय(३९९)भागः 'पुणव्यम' पुनर्वसुः मृगशिरसमारभ्य पुनर्वसुपर्यन्तानि त्रीणि नक्षत्राणि शुद्धयन्ति । तथा नवमगाथापूर्वार्धकथितानि 'अउणपन्नं पंचेव सयाई' एकोनपश्चाशदुत्तराणि पश्चशतानि एकोनपञ्चाशदधिकपञ्चशतभागैः (५४९) 'फग्गुणीओ' फाल्गुन्यः उत्तरफाल्गुन्यः पुष्यत आरभ्य उत्तरफाल्गुनी पर्यन्तानि पञ्चनक्षत्राणि शुद्धयन्ति 1८1 तथा 'विसाहासु' विशाखासु हस्तत आरभ्य विशाखापर्यन्तेषु चतुर्पु नक्षत्रेषु 'अउणुत्तराई' एकोनसप्तस्यधिकानि 'छच्चेव सयाई' षट्शतानि (६६९) 'सोज्झाणि' शोध्यानि भवन्ति । 'मूले" मूलपर्यन्ते अनुराधात आरभ्य मूल नक्षत्रपर्यन्तेषु त्रिषु नक्षत्रेषु 'सत्तेव चोयाल' सप्तैव चतुश्चत्वारिंशत् चतुश्चत्वारिंशदधिकानि सप्तशतानि (७४४) शोध्यानि ॥९॥ 'उत्तरासाढाणं' उत्तराषाढानाम्-उत्तराषाढापर्यन्तानामिति पूर्वाषाढा उत्तरापाढा-इति द्वयोर्नक्षत्रयोः 'सोहणगं' शोधनकम् 'अट्ठसय अउणवीसा' एकोन विंशत्यधिकानि अष्टौ शतानि (८१९) सन्तीति । सर्वेष्वपि च शोधनकेषु उपरि अभिजिन्नक्षत्रस्य मम्बन्धिनो मुहूर्तस्य 'चउवीसं खलु भागा' चतुर्विशति षिष्टिभागा तथा 'छावडीचुण्णियाओ य' षट्पष्टिश्च चूर्णिकाश्च एकस्य द्वाषष्टि भागस्य षट्षष्टिः सप्तषष्टिभागा चूर्णिकाभागाः । ६६६६, शोधनीयाः ॥१०॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy