SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ चन्द्रशतिप्रकाशिका टीका प्रा०१ गा०१० - १२ प्रथमप्राभृतगतान्तरप्राभृतविषयनिरूपणम् ९ तदेवं विंशतेरपि प्राभृतानामर्थाधिकाराः प्रदर्शिताः, अथ विंशतेरपि प्राभृतानामपान्तर्गतप्राभृतप्राभृतानां विषयान् वर्णयन पूर्वं प्रथमप्राभृतगताष्टप्राभृतप्राभृतानां विषयान् वर्णयति - 'बुड्ढो - बुड्ढी' इत्यादि । मूलम् — बुड्ढडो - बुड्ढी मुहुत्ताणं, अद्धमंडल संटिई, ते चिणं पडियर, अंतरं किं चरंति य ॥१०॥ ओगाहइ केवइयं, केवइयं च विकंपई । मंडलाण य संटाणे विक्खंभे अठ्ठ पाहुडा || ११|| छाया - वृद्ध्यपवृद्धी मुहर्त्तानां अर्धमण्डलसंस्थितिः । कस्ते चोर्ण प्रतिचरति अन्तरं किं चरन्ति च ॥ १० ॥ अवगाहते कियत्कं कियत्कं च विकम्पते । मण्डलानां च संस्थानं, विष्कम्भः अष्ट प्राभृतानि ॥११॥ व्याख्या -'बुड्ढो - बुड्ढी मुहुत्ताणं' वृद्धयपवृद्धो मुहर्त्तानाम् प्रथमस्य प्राभृतस्याष्टौ प्राभृतप्राभृतानि सन्ति तेषु प्रथमे प्रामृतप्रामृते = अन्तरप्राभृते अहोरात्रगतानां मुहर्त्तानां वृद्धि: - वर्धनम्, अपवृद्धिः=हानिः, इत्येतद्विषयवक्तव्यता वर्त्तते १ । 'अद्धमंडलसंठिई' अर्धमण्डल संस्थितिः, दक्षिणोत्तरयोः संचरतोर्द्वयोः सूर्ययोर्यन्मण्डला, तस्य प्रत्यहोरात्रं या संस्थितिः - संस्थानम् = माकृतिः तस्या वर्णनं द्वितीयेऽन्तरप्रामृते वर्त्तते २ । 'के ते चिण्णं पडियरइ' कस्ते चीर्णं प्रतिचरति, भगवन् 1 ते तव मते द्वयोः सूर्ययोर्मध्ये कः सूर्यः कियत्क्षेत्रं स्पृष्ट्वा पुनः अपरेण सूर्येण चीर्णम् = पूर्वसंक्रान्तं क्षेत्रं प्रतिचरति=संचरतीति । तथा जम्बूद्वीपे द्वौ सूर्यौ स्तः तन्मध्ये कः सूर्यो भरतक्षेत्रस्य, कश्च ऐरवतक्षेत्रस्यास्ति, स्वं प्रति स्वस्य कानि मण्डलानि कानि चान्यस्य मण्डलानीत्यादिविषयकं तृतीयमन्तरप्राभृतम् ३ । 'अंतरं किं चरंति य' अन्तरं किं चरतश्च, द्वावपि सूया परस्परं कियत्परिमितस्य क्षेत्रस्यान्तरं कृत्वा चारं चरतः । इतिविषयकं चतुर्थमन्तरप्राभृतम्, अत्र विषये - ऽन्य तैर्थिक प्ररूपणारूपाः पट्ट् प्रतिपत्तयः सन्ति ४ । 'ओगाहइ केवइयं ' अवगाहते कियत्कं एकैकेन रात्रिन्दिवेन एकैकः सूर्यः कियत्कं = कियत्प्रमाणकं क्षेत्रमवगाहते - अवगाह्य चारं चरतीति - विषयकं पञ्चममन्तरप्रामृतम् अत्र परमतरूपाः पञ्च प्रतिपत्तयः सन्ति ५, 'केवइयं च विकंपई' कियत्कं च विकम्पते, कियत्कं - कियत्प्रमाणकं च क्षेत्रं विकम्पते-विमुचति विमुध्य चारं चरतीतिविषयकं पष्टमन्तरप्राभृतम्, अत्र परमतरूपाः सप्त प्रतिपत्तयः सन्ति ६ । 'मंडलाण य संठाणे' मण्डलानां च संस्थानम्, सूर्यादीनां मण्डलानि कीदृशसंस्थानयुक्तानि वर्त्तन्ते ! इतिविषयकं सप्तममन्तरप्राभृतम्, अत्रान्यतैर्थिकप्ररूपणारूपा अष्ट प्रतिपत्तयः सन्ति ७ । १
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy