SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० १०-४ सू० १ योगस्यादिनिरूपणम् २५१ स्थायित्वात् अतएव 'तीसं मुहुत्ते' त्रिंशन्मुहूर्त, ततः 'तप्पढमयाए' तत्प्रथमतया प्रथम 'सायं' सायं काले 'चंदेण सद्धिं जोय जोएइ' चन्द्रेण साधू योगं युनक्ति 'तओ पच्छा' ततः पश्चात् रात्र्यनन्तरम् 'अवरं दिवसं' अपरं द्वितीयं दिवसं यावत् चन्द्रेण साधं तिष्ठति । उपसंहारः-एवं खलु' एवम् अनया रीत्या खल निश्चयेन 'अस्सिणीणक्खत्ते' अश्विनी नक्षत्र 'एग राई' एकां योगप्रारम्भरूपां रात्रिम् ‘एगं च दिवस' एकम् अग्रे समागमिष्यमाणं दिवसं यावत् 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्घ योगं युनक्ति, 'जोयं जोइत्ता' योगं युक्त्वा 'जोयं अणुपरियट्टई' योगमनुपरिवर्त्तयति, 'जोयं अणुपरियट्टित्ता' योगमनुपरिवत्ये 'सायं' सायंकाले 'चंदं चन्द्रं 'भरणीणं समप्पेई' भरण्यै समर्पयति ।८'ता' तावत् ततः 'भरणी खलु णक्खत्ते' भरणी खलु नक्षत्र 'णतंभागे' नक्तं भागं सायंकालव्यापि भूत्वा रात्रिमात्रस्थायित्वात् 'अवढखेत्ते' अपार्धक्षेत्रम् अर्धक्षेत्रप्रमाणोपेतम् , अतएव 'पण्णरसमुहत्ते' पञ्चदशमुहर्ते, ततः 'तप्पढमयाए' तत्प्रथमतया प्रथम 'सायं' सन्न्यासमये 'चंदेण सद्धि जोयं जोएई' चन्द्रेण सार्ध योग युनक्ति रात्रिमानं तिष्ठति किन्तु 'णो लभइ अवरं दिवस' नो-नैव लभते अपरं द्वितीयं राज्यन्ते समागमिष्यमाणं दिवसं, तत्तु रात्र्यन्ते एव समाप्तिमेति । उपसंहारव्याजेन तदेव स्पष्टयति ‘एवं खलु' इत्यादि ‘एवं' अनेन प्रकारेण खलु 'भरणीणक्खत्ते' भरणीनक्षत्रम् 'एग राई' एकां तां रात्रिमेव 'चंदेणसद्धि जोयं, जोएई' चन्द्रेण साधं योग युनक्ति 'जोयं जोइत्ता' योगं युक्त्वा 'जोयं अणुपरियट्टई' योगम् अनुपरिवर्त्तयति 'जोयं अणुपरियहित्ता' योगमनुपरिवत्यै 'पाओ' प्रातः प्रभातसमये 'चंद' चन्द्रं 'कत्तियाणं' कृत्तिकायै 'समप्पेइ' समर्पयति ।९। 'ता' तावत् तथा 'कत्तियाखलु णक्खत्ते' कृत्तिका खलु नक्षत्रं 'पुव्वंभागे' पूर्वभागम् प्रातश्चन्द्रेण सह युज्यमानत्वात् 'समखेत्ते समक्षेत्रम् अतएव 'तीसं मुहत्ते' त्रिंशन्मुहूर्ते प्रातःसमयादूर्व संपूर्णे दिवसरात्रिस्थायित्वात् , ततः 'तप्पढमयाए' तत्प्रथमतया प्रथमं 'पाओ' प्रातः 'चंदेण सद्धिं जोयं जोएइ' चन्द्रेण सार्ध योगं युनक्ति 'तो पच्छा' ततः पश्चात् सकलदिवसानन्तरं 'राई रात्रि सकलां रात्रि यावत् चन्द्रेण साधं तिष्ठति । तदेवाह-'एवं' एवम् अनेन रीत्या 'खलु' निश्चयेन 'कत्ति याणक्खत्ते' कृत्तिकानक्षत्रम्, 'एगं च दिवसं' एकं च दिवसम् ‘एगं च राई' एकां च रात्रिं यावत् 'चंदेण सद्धिं जोयं जोइए' चन्द्रेण साधू योगं युनक्ति 'जोयं जोइत्ता' योगं युक्त्वा 'जोयं अणुपरियट्टइ' योगम् अनुपरिवर्तयति योगाद् भात्मानं पृथक्करोति 'अणुपरियट्टित्ता' अनुपरिवर्त्य 'पाओ' प्रातः 'चंद' चन्द्रं 'रोहिणीणं' रोहिण्यै 'समप्पेई' समर्पयति ।१०। तदेवम् अभिजित आरभ्य कृत्तिकापर्यन्तं दशनक्षत्राणां चन्द्रेण सह योगप्रकारः सविस्तर प्रदर्शितः, साम्प्रतं शेषाणां रोहिणीत आरभ्य उत्तराभाद्रपदापर्यन्तमष्टादशनक्षत्राणां चन्द्रेण सह योगप्रकारमतिदेशेनाह-'रोहिणी जहा' इत्यादि 'रोहिणी जहा उत्तराभया' रोहिणी यथा उत्तराभाद्रपदा
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy