________________
चन्द्राप्तिप्रकाशिका टीका प्रा० १०-३ सू० १ पवंभागनक्षत्रस्वरूपनिरूपणम् २४३
तथा-'कयरे णक्खत्ता' कतराणि कानि नक्षत्राणि 'उभयं भागा' उभयभागानि दिवप्तरात्रिभागव्यापीनि 'दिवड्ढखेत्ता' द्वयर्वक्षेत्राणि सार्धाहोरात्रयोगकारीणि एकः सम्पूर्णोऽहोरात्रः, द्वितीयाहोरात्रस्यार्धदिवसमात्ररूपम् , इत्येव द्वयर्धक्षेत्राणि, अतएव 'पणयालीस मुहुत्ता' पञ्च चत्वारिंशन्मुहर्तानि 'पण्णत्ता' प्रज्ञप्तानि १४ । एवं गौतमेन प्रश्नचतुष्टये पृष्टे सति भगवान् चतुरोऽपि प्रश्नान् एकैकशः कृत्वा समाधत्ते-'ता एएसि गं' इत्यादि, 'ता' तावत् 'एएसिणं अट्ठावीसाए णक्खत्ताणं' एतेषां खलु अष्टाविंशतेर्नक्षत्राणां 'तत्थ' तत्र मध्ये 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि 'पुच्चभागा' पूर्वभागानि प्रातःकालव्यापीनि 'समखेत्ता' समक्षेत्राणि संपूर्णक्षेत्रचारीणि मतएव 'तीसं मुहुत्ता' त्रिंशन्मुहूर्तानि त्रिंशन्मुहूर्तभोग्यानि 'पण्णत्ता' प्रज्ञप्तानि 'ते णं' तानि खल 'छ' पद, 'तं जहा' तद्यथा-'पुचपोहवया' पूर्वप्रोष्ठपदा १, 'कत्तिया' कृत्तिका २, 'मघा' मघा ३, 'पुवाफग्गुणी' पूर्वाफाल्गुनी ४, 'मूलो' मूलम् ५, 'पुव्वासाढा' पूर्वाषाढा इति ६ । तथा—'तत्थ' तत्र अष्टाविंशतिनक्षत्रेषु 'जे ते णक्खत्ता' यानि तानि नक्षत्राणि 'पच्छंभागा' पश्चाद्भागानि सायंकालव्यापीनि 'समखेत्ता' सगक्षेत्राणि मतएव 'तीसंमुहुत्ता' त्रिंशन्मुहूर्त्तानि त्रिशन्मुहूर्तभोग्यानि 'पण्णत्ता' प्रज्ञप्तानि 'ते णं दस' तानि खलु दश, 'तं जहा' तद्यथा-'अभीई' अभिजित् १, 'सवणो' शवणः २, 'धणिट्टा' धनिष्ठा ३, 'रेवई' रेवती ४, 'अस्सिणी' अश्विनी - ५, 'मिगसिर' मृगशिरः ६, 'पूसा' पुण्यम् ७, 'हस्तो' हस्तः ८, 'चित्ता' चित्राः ९, 'अणुराहा' अनुराधा १०, । अत्र दशसु नक्षत्रेषु श्रवणादीनि नवनक्षत्राणि समक्षेत्राणि सन्ति, एकमभिजिन्नक्षत्रं समक्षेत्रस्य त्रिंशन्मुहूर्तास्मकस्य सप्तपष्टिभागाः क्रियन्ते तेषु-एकविंशतिभाग (२१/६७) क्षेत्रभोग्यमस्ति तथापि अस्याभिजितः समक्षेत्रे एव गणना कृता व्यवहारनयमाश्रित्येति विवेकः । इति २ ।
तथा-'तत्थ' तत्र अष्टाविंशतिनक्षत्रेषु 'जे ते णवत्ता' यानि तानि नक्षत्राणि, णत. भागा' नक्तंभागानि रात्रिमात्रव्यापीनि, अतएव 'अवड्ढखेत्ता' अपार्ध क्षेत्राणि अर्धक्षेत्रस्थायोनि रात्रिमात्रस्थायित्वात् अतएव च पण्णरसमुहुत्ता' पञ्चदशमुहूर्तानि पञ्चदशमुहूर्तभोग्यानि 'पण्णत्ता' प्रज्ञप्तानि तेणं छ' तानि खलु षट्, 'तं जहा' तद्यथा-'सयभिसया' शतभिषकू १, 'भरणी' भरणी २, 'अदा' आर्द्रा ३, 'अस्सेसा' अश्लेषा ४, 'साई' स्वातिः ५, 'जेहा' ज्येष्ठा ६, इति ३ ।
'तत्थ' तत्र अष्टाविशते नक्षत्रेपु जे ते णक्खत्ता' यानि तानि नक्षत्राणि 'उभयंभागा' उभयभागानि दिवसरात्रिरूपभागद्वयव्यापीनि 'दिवढखेत्ता' द्वयर्धक्षेत्राणि सार्धाहोरात्रस्थायीनि प्रथमदिवसस्य प्रातःकाले चन्द्रेण सह योगमुपेत्य सम्पूर्णमहोरात्रं त्रिंशन्मुहूर्तात्मकं भुक्त्वा पुनस्तदुपरि द्वितीयदिवसस्य सायंकालपर्यन्तं पञ्चदशमुहूर्ताश्च यावत्तिष्ठन्ति, इत्येवं रूपं व्यर्थक्षेत्राणि