SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ चन्द्र प्रकाशिका टोका प्रा०१० - २०१ नक्षत्राणां चन्द्रेण सह सहयोग निरूपणम् २३५ चित्रा १२, अनुराधा १३, मूलम् १४, पूर्वाषाढा १५/३॥ तत्र यानि तानि नक्षत्राणि यानि खल विंशतिम् अहोरात्रान् त्रीन् च मुहूर्त्तान् सूर्येण सार्धं योगं थुज्जन्ति तानि खलु षट्, तद्यथा - उत्तराभाद्रपदा १, रोहिणी २, पुनर्वसुः ३, उत्तराफाल्गुनी ४, विशाला ५, उत्तराषाढा ६|४|| २ || || दशमस्य प्राभूतस्य द्वितीयं प्राभृतप्राभृतं समाप्तम् ॥१०२॥ व्याख्या - भगवानाह — 'ता एएसि ण' इत्यादि, 'ता' तावत् 'एएसि णं' एतेषां खलु 'अट्ठावीसार णक्खत्ताणं' अष्टाविंशतेर्नक्षत्राणाम् 'अस्थि' अस्ति भवति 'णक्खत्ते' नक्षत्र 'जंणं' यत् खलु 'चत्तारि अहोरत्ते' चतुरोऽहोरात्रान् 'छच्च मुहुत्ते' षट् च मुहूर्त्तान् यावत् 'सूरिएण सद्धि' सूर्येण साधे 'जय जोएइ' योगं युनक्ति १, तथा - 'अस्थि' सन्ति 'णक्खत्ता' नक्षत्राणि 'जेणं' यानि खलु 'छ अहोरते' षड् अहोरात्रान् एकविंशतिं च मुहूर्तान् यावत् 'सूरिएण सद्धिं जोयं जोएंति' सूर्येण सार्धं योगं युज्जन्ति २| 'अस्थि' सन्ति 'णक्खत्ता' नक्षत्राणि 'जे णं' यानि खलु 'तेरस अहोरत्ते' त्रयोदश अहोरात्रान् 'बारस य मुहुत्ते' द्वादश च मुहूर्त्तान् 'रिए सद्धि जोयं जोएंति' सूर्येण सार्धं योगं युञ्जन्ति ३ | 'अस्थि' सन्ति कानिचित् 'णक्खत्ता' नक्षत्राणि 'जेणं' यानि खलु 'वीस अहोरत्ते' विंशतिमहोरात्रान् 'तिष्णि य मुहुत्ते' त्रीन् च मुहूर्त्तान् 'सूरिएणं सद्धि जोयं जोएंति' सूर्येण सार्धं योगं युञ्जन्ति ४ । 44 एवं भगवता सामान्येन कथितान् सूर्यनक्षत्रयोगविषयकान् चतुरो विषयान् श्रुत्वा गौतमः पृच्छति - 'ता एएसि णं' इत्यादि, हे भगवन् 'ता' तावत् प्रथमं कथय 'एएसि णं अट्ठावीसाए णक्खत्ताणं' एतेपां खलु अष्टाविंशतेः नक्षत्राणां मध्ये 'कयरं णक्खत्तं' कतरत् किं नामधेयं नक्षत्रम् 'जं णं' यत् खलु 'चत्तारि अहोरत्ते' चतुरोऽहोरात्रान् 'छच्च मुहुत्ते ' षट् च मुहूर्त्तान् यावत् 'सूरिएण सद्धिं जोयं जोएइ' सूर्येण सार्धं योगं युनक्ति १, 'कयरे णक्खत्ता' कतराणि किंनामधेयानि नक्षत्राणि 'छच्च अहोरते' षट् चाहोरात्रान् 'एकवीसं मुहुत्ते' एकविंशति मुहूर्त्तान् यावत् 'सूरिएण सद्धिं जोयं जोएंति' सूर्येण सार्धं योगं युञ्जन्ति २ । 'कयरे णक्खत्ता' कतराणि कानि नक्षत्राणि 'जे णं' यानि खलु 'तेरस अहोरते' त्रयोदश अहोरात्रान् 'बारस य मुहुत्ते ' द्वादश च मुहर्त्तान् यावत् 'सूरिएण सद्धिं जोयं जोएंति' सूर्येण सार्धं योगं युञ्जन्ति ३। 'करे णक्खत्ता' कतराणि कानि नक्षत्राणि 'जे णं' यानि खलु 'वीसं अहोरते' विंशतिमहोरात्रान् 'तिष्णि य मुहुत' त्रीन् च मुहूर्त्तान् यावत् 'सूरिएण सद्धिं जोयं जोएंति' सूर्येण सार्धं योगं युञ्जन्ति । H # एवं गौतमेन पृष्टे सति भगवान् चतुरोऽपि प्रश्नान् एकैकशः स्पष्टीकरोति तत्र प्रथममाह'ता एएसि णं' इत्यादि 'ता' तावत् 'एएसि णं' एतेषां खलु 'अट्ठावीसाए णक्खत्ताणं' अष्टाविंशतेर्नक्षत्राणां मध्ये 'तत्थ' तत्र तेषु नक्षत्रेषु 'जे से णक्खत्ते' यत्तत् नक्षत्रं 'चत्तारि अहोरत्ते' :
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy