________________
२२८
चन्द्रप्रतिको अन्ते चाश्विनी, इत्येवंरूपाणि 'पण्णत्ता' प्रज्ञप्तानि, 'एगे एवमाहंमु' एके पश्चमा एवमाहुः ।। तदेवमन्यतीर्थिकाणां पञ्च प्रतिपत्तीः प्रदर्य भगवान् साम्प्रतं स्वमतं प्रकटयति-'वयं एण' इत्यादि, 'वय पुण' क्यं पुन: 'एवं' एवम्-वक्ष्यमाणप्रकारेण 'वयामो' वदामः कथयामः, तदेवाह-'ता' इत्यादि, 'ता'तावत् 'सव्वे विणं णक्खत्ता' सर्वाण्यपि खलु नक्षत्राणि 'अभिईआदिया उत्तरासाढा पज्जवसाणा' अभिजिदादिकानि उत्तराषाढापर्यवसानानि, अभिजित आरभ्य उत्तराषाढा. पर्यन्तानि, सर्वेषां नक्षत्राणामादौ अभिनित्, अन्ते च उत्तराषाढा वर्तते, इत्येवं रूपाणि 'पण्णत्ता' प्रज्ञप्तानि कथितानि, वस्तुतो नक्षत्राणां गणनाक्रमः अभिजिदादिकः उत्तराषाढापर्यवसान एव भवति, नान्यः क्रमः समीचीनः, अन्यतीर्थिकाणां पञ्चापि प्रतिपत्तयो मिथ्यारूपा मतो न स्वीकरणीयाः । तान्येव नक्षत्राणि दर्शयति-'अभिई' इत्यादि, अभिजित् १, 'सवणे श्रवणः २, 'जाव' यावत् , यावत्पदेन धनिष्ठा ३, शतभिषक् ४, पूर्वाभाद्रपदः ५, उत्तराभाद्रपदः ६, रेवती ७, अश्विनी ८, भरणी ९, कृत्तिका १०, रोहिणी ११, मृगशिरः १२, मार्दा १३, पुनर्वसुः १४, पुष्य १५, अश्लेषा १६, मघा १७, पूर्वाफाल्गुनी १९, हस्तः २०, चित्रा २१, स्वातिः २२, विशाखा २३, अनुराधा २४, ज्येष्ठा २५, मूलम् २६, पूर्वाषाढा २७ इति संग्राह्यम् 'उत्तरासाढा' उत्तराषाढा २८, इत्यष्टाविंशतितम नक्षत्रं वाच्यम् । अत्राशङ्कयते यत्-सर्वेषां नक्षत्राणामादौ अभिजित् अन्ते च उत्तराषाढा, इत्येव कथम् ? इत्याह-इह सर्वेषामपि सुषममुषमादि रूपकालविशेषाणामादि च युग भवति, उक्तश्च- 'एए उ सुसममुसमादओ अद्धाविसेसा जुगादिना सह पवतंति जुगतेण सह समप्पंति' छाया-एते तु सुषमसुषमादयः अद्धाविशेषा युगादिना सह प्रवर्तन्ते, युगान्तेन सह समाप्यन्ते, इति । युगस्यादिश्च-श्रावणमासे बहुलपक्षे प्रत्तिपत्तिथौ बालवकरणे अभिजिन्नक्षत्रे चन्द्रेण सह योग प्राप्ते सति भवति, तथा चोक्तम्
"सावणवहुलपडिवए, वालवकरणे अभीइनक्खत्ते । सव्वस्थ पढमसमए, जुगस्स आई वियाणाहि" ॥१॥ छाया-श्रावणबहुलप्रतिपदि, बालवकरणे अभिजिन्नक्षत्रे ।
सर्वत्र प्रथमसमये, युगस्य मादि विजानीहि ॥१॥ सर्वत्रेति भरते, ऐरवते, महाविदेहे चेति । अतएव भगवता कथितम्-अभिजिदादीनि उत्तरापाढापर्यवसानानि सर्वाणि नक्षत्राणि भवन्तीति ॥सू०१॥ इति-श्री-विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचकपञ्चदशभाषाकलितललितकलापालापक-प्रतिशुद्धगधगद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहच्छत्रापति कोल्हापुररानप्रदत्त "जैनशास्त्राचार्य" पदभूपित-कोल्हापुरराजगुरु बालब्रह्मचारि-जैनशास्त्राचार्य-जैनधर्मदिवाकर श्रीघासीलालति-विरचितायां चन्द्रप्रज्ञप्तिसूत्रस्य चन्द्रप्रज्ञप्तिप्रकाशिकाख्यातां व्याख्यायाम् दशमप्रामृते प्रथममं प्रामृतं समाप्तम् ॥१०-१॥