________________
चन्द्रप्रप्तिप्रकाशिका टीका प्रा०९० २ पौरुषी छायायाः प्रमाणनिरूपणम्
२१५
'उत्तमकट्ठपत्ते' उत्तमकाष्ठा प्राप्तः परमप्रकर्षसंपन्नः 'उक्कोसए' उत्कर्षकः सर्वोत्कृष्टः 'अट्ठारस - मुहुत्ते दिवसे भवइ' अष्टादशमुहूत्तों दिवसो भवति, 'जहण्णिया' जधन्यिका सर्वलध्वी 'दुवालसमुहुत्ता राई भव' द्वादशमुहूर्त्ता रात्रिर्भवति 'तंसि च णं दिवसंसि तस्मिंश्च खलु सर्वोत्कृष्टदिवस सर्वजघन्यरात्रिरूपे दिवसे 'सूरिए' सूर्यः 'चउपोरिसिं छायं' चतुष्पौरुषों छायां 'निव्वत्तेइ ' निर्वर्त्तयति । कस्मिन् समये ' इत्याह- 'तं जहा' तद्यथा 'उगमणमुहुत्तंसि' य अत्थमणमुहुत्तंसि य' उद्गमनमुहूर्ते च अस्तमनमुहूर्त्ते च 'लेस्सं' लेश्यां तेजी रूपाम् 'अभिवुड्ढेमाणे वा' अभिवर्धयन् वा उद्गमनमुत्ते तेजोरूपां स्वलेश्यां प्रवर्धयन् वा, तथा 'निव्बुड्ढेमाणे वा' निर्वर्धयन् वा सूर्योऽस्तमनसमये स्वलेश्यां हापयन् वा ।
सूर्यो द्विपौरुप छायां कदा निर्वर्त्तयतीति दर्शयति 'ता जया णं इत्यादि ।
'ता' तावत् 'जया णं' यदा खल 'सूरिए' सूर्यः 'सब्ववाहिरं मंडलं उत्रसंकमित्ता चारं चरइ' सर्व बाह्यमण्डलम् उपसंक्रम्य चारं चरति 'तया णं' तदा खलु 'उत्तमकट्टपत्ता' उत्तमकाष्ठा प्राप्ता परमप्रकर्षसंपन्ना 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्त्ता रात्रिर्भवति, 'जहण्णए' जघन्यकः 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूर्त्तो दिवसो भवति 'तंसि च णं' तस्मिंश्च सर्वोत्कृष्टरात्रि - सर्वजघन्यदिवसरूपे खलु ' दिवसं सि' दिवसे 'सूरिए' सूर्य, 'दुपोरिसिं छायं निव्वत्तेर' द्विपौरुषीं छायां निर्वर्तयति पुरुषस्य प्रकाश्य वस्तु नो वा द्विगुणां छायां निर्वर्त्तयतीति भावः । कदा द्विपौरुषी छाया भवतीत्याह 'तं जहा ' तथा 'उग्गमणमुहतसि य अत्थमणमुहुत्तंसि य' उद्गमनमुहूर्त्ते च अस्तमनमुहूर्त्ते च उदयास्तसमये इत्यर्थः । तच्च ‘लेस्सं' लेश्यां स्वतेजोरूपां 'अभिवुड्ढेमाणे वा' अभिवर्धयन् वा 'निव्बुड्ढे माणे वा' निर्वर्धयन् वा लेश्यां हापयन् वा, उदयसमये लेश्यां वर्धयन् अस्तमनसमये च लेश्यां हापयन् हीनां कुर्वन् वा द्विपौरुष छायां सूर्यो निर्वर्त्तयतीतिभावः । इति प्रथमप्रतिपत्तेर्भेदद्वयस्य स्पष्टी - करणम् |१|
1
अथ द्वितीयप्रतिपत्तेर्भेदद्वयस्य स्पष्टीकरणमाह - ' तत्थ णं जे ते' इत्यादि, 'तत्थ णं' तत्र द्वयोर्मध्ये ये ते द्वितीयाः प्रतिपत्तिवादिनः यत् 'एवमाहंसु' एवं वक्ष्यमाणप्रकारेणाहुः यत् 'ता' तावत् 'अत्थि णं से दिवसे' अस्ति भवति खलु स दिवसः 'जैसि णं दिवसंसि' यस्मिन् स्खलु दिवसे 'सरिए' सूर्यः 'दुपोरिसिं छायं निव्वत्तेइ' द्विपौरुषीं छायां निर्वत्तयति । 'अहवा' अथवा ‘अत्थि णं' अस्ति खलु 'से दिवसे' स दिवस: 'जंसि णं दिवसंसि' यस्मिन् खलु दिवसे 'सूरिए' सूर्यः 'नो किंचिवि' नो नैव काश्चिदपि किञ्चिन्मात्रामपि 'पौरिसिं छायां' पौरुषीं छायां 'निव्वत्तेइ' निर्वर्त्तयति, 'ते' ते द्वितीयाः प्रतिपत्तिवादिनः ' एवं ' एवम् वक्ष्यमाण्