SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ चन्द्रज्ञप्तिप्रकाशिका टीका प्रा०-८सू०१ सूर्यस्य उदयसंस्थितिनिरूपणम् १८९ भवति, 'जया णं' यदा खलु 'उत्तरड्ढे' उत्तरार्धे 'सत्तरसमुहुत्ते दिवसे भवई' सप्तदशमुहूर्तो दिवप्तो भवति 'तया णं' तदा खल 'दाहिणड्ढे वि' दक्षिणार्धेऽपि 'सत्तरसमुहुत्तो दिवसो भवइ' सप्तदशमुहूर्तो दिवसो भवति । ‘एवं' एवम्-अनया रीत्या 'एएणं' एतेन पूर्वोक्तेन 'अभि. लावणं' अभिलापेन पूर्वोक्ताभिलापानुसारेण-एकैकमुहूर्त्तहान्या षोडशमुहूर्तदिवसादारभ्य त्रयोदशमुहूर्त्तदिवसपर्यन्तमभिलापाः कर्त्तव्या इति भावः । तदेवाह --'सोलसमुहुत्ते' षोडशमुहूर्तः, 'पण्णरसमुहुत्ते' पञ्चदशमुहूत्र्तः, 'चोदसमुहुत्ते' चतुर्दशमुहूर्तः, 'तेरसमुहुत्ते' त्रयोदशमुहूर्तः । एषामालापकाः स्वयमूहनीयाः । अथ द्वादशमुहूर्त्तविपये सूत्रकारः स्वयमाह-'ता जया णं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु 'दाहिणड्ढे' दक्षिणार्धे वारसमुहुत्ते दिवसे भवइ' द्वादशमुहत्तों दिवसो भवति 'तया गं तदा खलु 'उत्तरड्ढे वि' उत्तरार्धेऽपि 'वारसमुहुत्ते दिवसे भवई' द्वादशमुहुर्ती दिवसो भवति 'ता' तावत् 'जया ण' यदा खल 'उत्तरड्ढे वारसमुहुत्ते दिवसे भवई' उत्तरार्धे द्वादशमुहूत्तों दिवसो भवति 'तया णं' तदा खलु 'दाहिगड्ढेवि वारसमुहुत्ते दिवसे भवई' दक्षिणार्धेऽपि द्वादशमुहूर्तो दिवसो भवति । 'तया णं तदा अष्टादशमुहर्त्तादि दिवसकाले खलु 'जंबुद्दीवे दीवे' जम्बुद्वीपे द्वीपे 'मंदरस्स पन्चयस्स' मन्दरस्य पर्वतस्य 'पुरथिमपच्चत्थिमेणं' पौरस्त्यपाश्चात्ये पूर्वस्यामपरस्यां च दिशि पूर्वपश्चिमयोर्दिशोरित्यर्थः 'सया' सदा सर्वदा सर्वकाले 'पण्णरसमुहुत्ते दिवसे भवई' पञ्चदशमुहूत्तों दिवसो भवति, तथा 'सया' सदा सर्वदा सर्वकाले 'पण्णरसमुहुत्ता राई भवई' पश्चदशमुहूर्ता रात्रिर्भवति, न तत्र न्यूनाधिकानि रात्रिंदिवानि भवन्तीति भावः । कुतः किं तत्र कारणमित्याह-'अवट्ठिया गं' अवस्थितानि सर्वदैकप्रमाणानि खलु 'तत्थ तत्र मन्दरपर्वतस्य पूर्वस्यां पश्चिमायां च दिशि 'राइंदिया' रात्रिन्दिवानि 'पण्णत्ता' प्रज्ञप्तानि कथितानि अस्माकं पूर्वा चार्यैः 'समणाउसो' श्रमणायुष्मन्तः हे श्रमणाः हे आयुष्मन्तः चिरजीविनः शिष्याः !, उपसंहारः-'एगे' एके प्रथमाः प्रतिपत्तिवादिनः 'एवं' एवं पूर्वप्रदर्शितप्रकारेण 'आहंस' आहुः कश्यन्ति प्रतिपादयन्ति । एषा प्रथमा प्रतिपत्तिः ॥१॥ अथ द्वितीयां प्रतिप्रत्तिमाह-'एगे पुण' इत्यादि । 'एगे' एके द्वितीयप्रतिप्रत्तिवादिनः पुनः ‘एवं' एवं वक्ष्यमाणप्रकारेण 'आहेसु' आहुः कययन्ति । तदेव दर्शयति-'ता जया णं' इत्यादि । 'वा' तावत् 'जया णं' यदा खलु 'जवुद्दीवे दीवे' जम्बूद्वीपे द्वीपे 'क्षहिणड्डे' दक्षिणार्धे "अट्टारसमुहुत्ताणंतरे' अष्टादशमुहूर्त्तानन्तरः
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy