________________
चन्द्रप्रशतिसूत्रे
व्याख्या- 'ता' तावत् 'ते' तव भवतो मते 'क' कथं केन प्रकारेण किं सर्वदा एकरूपा उतान्यथा 'ओयसंठिई' ओजः संस्थितिः ओजसः प्रकाशस्य संस्थितिः - संस्थानम् अवस्था नमित्यर्थ 'आहिया' आख्याता कथिता ? 'ति वएज्जा' इति वदेत् हे भगवन् कथयतु । इति गौतममस्य प्रश्नः । अथ भगवान् एतद्विषये अन्यतैर्थिकानां मान्यतारूपा यावत्यः प्रतिपत्तयः सन्ति ताः प्रदर्शयति- 'तत्थ' इत्यादि । ' तत्थ खलु' तत्र ओजः संस्थितिविषये खल 'इमाओ' इमा अग्रे वक्ष्यमाणाः 'पणवीस पञ्चविंशतिः 'पडिवत्तभो' प्रतिपत्तयः परमतरूपा 'पण्णताओ' प्रज्ञताः कथिताः 'तं जहा ' तद्यथा ता यथा 'तत्थेगे' इत्यादि । 'तत्थ' तत्र पञ्चविंशति संख्यकेषु प्रतिपत्तिवादिषु 'एगे' एके केचन प्रथमा: ' एवं ' एवं वन्यमाणप्रकारेण 'आहंसु ' कथयन्ति, किं कथयन्तीति प्रदर्शयति- 'ता अणुसमयमेव' इत्यादि 'ता' तावत् 'अणुसमयमेव' अनुसमय मेव प्रतिसमयमेव समये समये प्रतिक्षणमित्यर्थः 'सूरियस्स' सूर्यस्य 'ओया' ओजः प्रकाशः, सूत्रे 'ओया' इति स्त्रीत्वं प्राकृतत्वात् 'अण्णा' उप्पज्जइ' अन्यत् उत्पद्यते ' तथा 'अण्णा' अन्यत् अपरमेव अजः 'अवेइ' अपैति पृथक् भवति, अयं भावः सूर्यस्यौजः प्राक्तनं भिन्नप्रमाणमुत्पद्यते प्राक्तनाद् भिन्नमेव ओजः विनश्यति इति । उपसंहारमाह - 'एगे' एके प्रथमा 'एवं' एवं पूर्वोक्तप्रकारेण 'आहंस' आहुः कथयन्तीति |१| 'एगे पुण' एके द्वितीयाः पुनः 'एवमाहंसु' एवं वक्ष्यमाणप्रकारेण आहुः - 'ता' तावत् 'अणुमुहुत्तमेव' अनुमुहूर्तमेव प्रतिमुहूर्त्तमेव 'सूरियस्स ओया' सूर्यस्य ओजः 'अण्णाउत्पज्जइ' अन्यत् उत्पद्यते, 'अण्णा भवेइ' अन्यत् यत् पूर्वमासीत् तत् अपैति विनश्यति, उपसंहारः - 'एगे' एके द्वितीयाः ' एवं ' पवं पूर्वोक्तप्रकारेण 'आईसु' आहुः कथयन्ति |२| ' एवं ' एवम् 'एए' एतेन आद्य प्रतिपत्तिद्वयप्रोक्तेन 'अभिलावेणं' अभिलापेन अभिलापप्रकारेण अग्रेsपि विज्ञेयमिति भावः । तथा च - 'ता' तावत् अणुराइदियमेव ' अनुरात्रिन्दिवमेव प्रत्येकमहोरात्रमेव | ३ | 'ता अणुपक्खमेव' तावत् अनुपक्षमेव |४| 'ता अणुमासमेव ' तावत् अनुमासमेव | ५ | 'ता अणुउउ मेव' तावत् अनुऋतुमेव प्रतिवसन्तादिरूपमेव । ६ । 'ता अणुअयणमेव' तावत् अन्वयनमेव, अयनंनाम दक्षिणायनोत्तरायणरूपं द्वयम् |७| 'ता अणुसंवच्छरमेव ' तावत् - अनुसंवत्सरमेव, संवत्सरः - द्वादशमासरूपः | ८ | 'ता अणुजुगमेव ' तावत् अनुयुगमेव पञ्चवर्षा त्मकयुगमेव | ९| 'ता अनुवाससयमेव ' तावत् अनुवर्पशतमेव | १० | 'ता अणुवाससहस्समेव' तावत् अनुवर्षसहस्रमेव ॥ ११ ॥ ता अणुवाससय सहरसमेव ' तावत् अनुवर्पशत सहस्रमेव अनुलक्षवर्पमेवेत्यर्थः । १२। ‘ता अणुपुञ्चमेव ' तावत् अनुपूर्वमेव ॥ १३ ॥ ता अणुपुञ्चसयमेव तावत् अनुपूर्वशतमेव | १४ | 'ता अणुपुव्वसहस्तमेव तावत् पूर्वसहस्रमेव, | १५ | 'ता अणुपुञ्चस यसहस्समेव ' तावत् अनुपूर्वशतसहस्रमेव, शतसहस्रमिति लक्षम् | १६ | 'ता
१७६