SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टीका प्रा० ३ सू० २ तापक्षेत्रसंस्थितिनिरूपणम् १५९ नवच दशम नवच दश भागा योजनस्य(९४८६,१) इति लब्धं यथोक्तं मन्दरसमीपे तापक्षेत्रपरिमाणमिति, उक्तञ्चान्यत्रापि-'मंदरपरिरयरासी, तिगुणे दसमाइयमिज लद्धं । तं होइ तावखेत्तं अभितरमंडले रविणो ॥१॥ इति । छोया-मन्दरपरिरयराशौ, त्रिगुणिते दशभाजिते यल्लब्धम् । तद्भवति तापक्षेत्रं, अभ्यन्तरमण्डले रवेः॥१॥ इति । उक्तं च सूर्यस्य सर्वाभ्यन्तरमण्डलस्थितिसमये मन्दरसमीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरबाहाया विष्कम्भपरिमाणम् । अथ च लवणसमुद्रदिशि जम्बूद्वीपपर्यन्ते स्थितायाः सर्वबाह्या बाहाया विष्कम्भपरिमाणमाह-'तीसे णं' इत्यादि, 'तीसे थे' तस्याः खल तापक्षेत्रसंस्थितेः 'सब्बवाहिरिया वाहा' सर्वबाह्या बाहा 'लवण समुदंते थे' लवणसमुद्रान्ते 'चउणउई जोयणसहस्साई चतुर्नवतिर्योजनसहस्राणि 'अट्ठय अट्ठसहे जोयणसयाई' अष्ट च अष्टषष्ठि योजनशतानि अष्टषष्टयधिकानि अष्टशतयोजनानि 'चत्तारि य दसभागे जोयणस्स' चतुरश्चदशभागान् योजनस्य (९४८६८१) यावत् 'परिक्खेवेणं' परिक्षेपेण जम्बूद्वीपपरियपरिक्षेपेण 'आहिया' आख्याता 'वि वएज्जा' इति वदेत् । अथास्य स्पष्टबोधार्थ गौतमः प्रश्नयति-'ता से णं' इत्यादि, 'ता' तावत् 'से णं' स खलु एतावान् परिक्षेपविशेषस्तापक्षेत्रसंस्थितेः 'कओ आहिए' कुत आख्यातः कस्मात्कारणात् कथितः 'ति वएज्जा' इति वदेत् वदतु भगवन् । इति गौतमेन प्रश्ने कृते तदेव भगवान् द्वदर्शयति-ता जेणं' इत्यादि, 'ता' तावत् 'जेणं' यः खल जम्बूद्वीपस्य परिक्षेपः परिरयगणितप्रसिद्धः परिक्खेवविसेसे' परिक्षेपविशेषः अस्ति 'तं परिक्खे' तं परिक्षेपम् 'तिहि गुणित्ता' बिभिर्गुणयित्वा 'दसहि छित्ता' दशमिश्छित्त्वा दशभिर्भागं हत्वा, दशभिर्विभज्यते इति भावः, 'दसहि भागे हीरमाणे' दशभिभागे हियमाणे दशभिर्विभाजिते सति यो राशिलभ्यते "एस णं' एष : भागलब्धः खलु 'परिक्खेवविसेसे' परिक्षेविशेषः 'आहिए' आख्यातः। एतच्च यथोकं जम्बूद्वीपपर्यन्ते लवणदिशि तापक्षेत्रपरिमाणं भवति 'ति वएज्जा' इति वदेत्, कथयेत् स्वशिष्येभ्य इति । तद्गणितविधिश्चेत्थम्-जम्बूद्वीपस्य परिक्षेपः-सप्तविंशत्यधिकद्विशसोत्तरषोडशसहस्राधिकानि त्रीणि लक्षाणि योजनानाम् (३१६२२७) तदुपरि गव्यूतत्रयम् (३) अष्टाविंशत्यधिकमेकं धनुः शतम् (१२८) सार्धत्रयोदशाङ्गुलानि (१३||) च' मत्र निश्चयत एक योजनं किञ्चिन्यून वर्तते किन्तु व्यवहारतः अष्टाविंशत्यधिकं शतद्वयं परिपूर्ण विज्ञेयं ततः-अष्टाविंशत्यधिकशतद्वयोत्तरषोडशसहस्राधिकानि त्रीणि लक्षाणि योजनानां (३१६२२८) जम्बूद्वीपपरिधिम्रहीतव्यः । एषा संख्या त्रिभिर्गुण्यते मातानि-चतुरशीत्यधिकषट्शताधिकाष्टाचत्वारिंशत्सहसोस्राणि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy