SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ २२० चन्द्रप्राप्तिसूत्रे तथाहि-सूर्योदयसमयमुहूर्तेऽस्तसमयमुहूर्ते च प्रत्येकं पट् षड्योजनसहस्रपरिमितो गमनकालः कथितः, तयोईयोर्मीलने जातानि द्वादशसहनयोजनानि (१२०००) सर्वाभ्यन्तरं मुहर्त्तमात्रगम्यं तापक्षेत्रं सम्प्रति न गृह्यते मध्यमे च तापक्षेत्रे पश्चदशमुहूर्तगम्यप्रमाणं पश्च पञ्चसहस्रयोजनानि सूर्यो गच्छतीति, पञ्चदशयोजनसहस्राणि पञ्चदशभिर्गुण्यन्ते तदा नातानि पञ्च सप्ततिसहस्रयोजनानि (७५०००) अथ च सर्वाभ्यन्तरमुहूर्त्तमात्रगम्यं तापक्षेत्रं चतुःसहस्रयोजन (४०००) परिमितं, तत् तथा उदयास्तसमयसंपन्नानि पूर्वोक्तानि द्वादशसहस्रयोजनानि च, एवं १२-७५-४ सर्वमीलने जातानि एकनदतिसहस्राणि (९१०००) । एव मष्टादशमुहर्तप्रमाणे दिवमे समागतं यथोक्तं तापक्षेत्रप्रमाणमिति । अन्यथा चैतानि न घटन्त इति । 'ता' तावत् 'जया णं' यदा खल 'सुरिए' सूर्यः 'सव्ववाहिरं मंडलं' सर्वबाह्य मण्डलम् 'उवसंकमित्ता चारं चरइ उपसंक्रम्य चारं चरति 'तयाणं' तदा खल 'उत्तमकट्ठपत्ता' उत्तमकाष्ठा प्राप्ता सर्वोत्कृष्टप्रकर्षसंपन्ना 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा 'अट्ठारसमुहुत्ता राई भवई' अष्टादशमुहूर्त्ता रात्रिर्भवति 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूर्तो दिवसो भवति, 'तंसि च ण' तस्मिंश्च द्वादशमुहूर्तपरिमिते 'दिवसंसि' दिवसे 'एगसहिजोयणसहस्साई एकपष्टियोजनसहस्राणि एकपष्टिसहस्रयोजनपरिमितं (६१०००) 'तावखेत पण्णत्ते तापक्षेत्रं प्रज्ञप्तम् । कथमेतद् घटते ? इति प्रदर्श्यते-उदयकालमुहूर्त, अस्तकाल मुहूर्ते च प्रत्येकं पदे षड्सहस्रयोजनानि सूर्य एकैकेन मुहूर्तेन गच्छतीति द्वयोर्मीलने जातानि द्वादशसहस्रयोजनानि (१२०००) सर्वाभ्यन्तरं मुहूर्तमात्रगम्यं तापक्षेत्रं सम्प्रति न गृह्यते, शेषा नवमुहूर्ताः तेप सूर्यः पञ्च पञ्चसहस्रयोजनानि प्रतिमुहत्तं गच्छति ततः पञ्चसहस्रयोजनानि नवभिर्गुण्यन्ते जातानि पञ्चचत्वारिंशत् -सहस्रयोजनानि (४५०००) सर्वाभ्यन्तरे मुहूत्तैकगम्ये तापक्षेत्र चतुःसहस्रयोजनानि एकैकेन मुहूर्तेन गच्छनीति चत्वारि योजनसहस्राणि (१०००) तथा उदयास्तकालसंपन्नानि पूर्वोक्तानि द्वादशसहस्रयोजनानि (१२०००) •एवं १२-४५-४ सर्वसंमेलने जातं यथोक्तम् एकपप्टिसहस्रयोजनपरिमितं (६१०००) द्वादशमुहूर्तपरिमिते दिवसे तापक्षेत्रप्रमाणम् । न चैतदन्यथोपपद्यत इति, 'तया णं तदा खलु एवं कृते सति 'छ वि पंच वि चत्तारि वि' पडपि पञ्चापि चत्वार्यपि 'जोयणसहस्साई' योजनसहस्राणि पट्पञ्चचतुःसहस्रयोजनपरिमितं क्षेत्रं 'सूरिए' सूर्यः 'एगमेगेणं मुहुत्तण' एकैकेन मुहूर्तेन 'गच्छइ' गच्छति । एतदभिप्रायेण चतुर्थास्तीर्थान्तरीयाः सूर्यस्य प्रतिमुहूर्त्तगमनकालं पट्पञ्चचतुःसहस्रयोजनपरिमितं प्रतिपादयन्तीति विज्ञेयम् । उपसंहारमाह-'एगे' एके चतुर्थाः परमतवादिनः 'एवं' एवं पूर्वप्रदर्शितप्रकारेण 'आइंसु' आहुः कथयन्तीति ॥सू० १॥
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy