SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ দ্বিসাহিঙ্কা तदधिकृतमप्रेतनं मण्डलं प्रथमक्षणादूर्ध्वमारभ्य कर्णकलां यथास्यात्तथा क्रियाविशेषणमेतत् 'निव्वेढेई' निर्वेष्टयति मुश्चति तथा चात्रेयं भावना-भारतो वा ऐरवतो वा सूर्यः स्वस्वस्थाने उदितः सन् अपरमण्डलगतं कर्ण मण्डलस्य प्रथमकोटिभागलक्षणं लक्ष्यीकृत्याधिकृतमण्डलं प्रथमक्षणादुपरि प्रतिक्षणं कलयातिक्रान्तं यथास्यात्तथा निर्देष्टयतीति द्वितीया प्रतिपत्तिः ।। अथात्र प्रतिपत्तिद्वये भगवान् वस्तुतत्त्वं प्रदर्शयति-'तत्थ णं' इत्यादि, 'तत्थ णं' तत्र प्रतिपत्तिद्वयमध्ये खल 'जे ते एवमाइंस' ये ते एवमाहुः यत् 'ता तावत् मंडलाओ मंडलं संकममाणे सारए' मण्डलान्मण्डलं संक्रामन् सूर्यः 'भेयघाएणं' भेदघातेन 'संकामई' संक्रामति स्वगत्या गच्छति 'तेसि गं' तेषां प्रथमप्रतिपत्तिवादिनां खल मते 'अयं' अयं वक्ष्यमाणस्वरूपः 'दोसे' दोषो वर्तते, को दोषः ? इति दर्शयति-ता जेणंतरेण' इत्यादि 'ता' तावत् 'जेण' येन कालेन यावत्परिमित कालमाश्रित्येत्यर्थः 'अंतरेण' अन्तरेण अपान्तरालेन 'मंडलाओ' मंडलं संकममाणे सरिए' मण्डलान्मण्डलं संक्रामन् सूर्यः 'भेयघाएणं' भेदघातेन.'संकामई' संक्रामतीति यदुक्तं तन्न सम्यक् यतः 'एवइयं च णं अद्धं एतावती च खल अद्धाम् आश्रित्य एतावत्कालेनेत्यर्थः सूर्यः 'पुरओ' पुरतः अग्रेतने द्वितीये मण्डले 'न गच्छई' न गच्छति ! न गन्तुं शक्नोतीत्यर्थः । कथं न गच्छति ! इति प्रदयते -एकस्मात् मण्डलादपरस्मिन् मण्डले संक्रमणं कुर्वन् सूर्यः यावता कालेनापान्तरालं गच्छति तावत्परिमितकालानन्तरं परिभ्रमितुमिच्छति तदा द्वितीयमण्डलसम्बन्ध्यहोरात्रमध्यात् त्रुटयति ततो द्वितीये परिभ्रमन् तत्पर्यन्ते तावत्परिमितं कालं परिभ्रमितुं न शक्नोति तद्गताहोरात्रस्य परिपूर्णीभूतत्वात् , यतो हि 'पुरक्ते अगच्छमाणे' पुरतः अगच्छन् द्वितीयमण्डलपर्यन्ते च न गच्छन् 'मंडलकालं' मण्डलकालं मण्डलपरिभ्रमणकालं यावत्परिमितकालेन परिपूर्णमण्डले भ्रम्यते तत् कालं 'परि हवेई' परिभवति-हापयति न्यूनीकरोति तस्य कालस्य हानिरुपजायते, एवं सति सर्वजगत्प्रसिद्ध प्रतिनियताहोरात्रपरिमाणव्याघातः प्रसज्येताऽतो न तेषामिदं मतं समीचीनम् तस्माद्धेतोराह'तेसि णं' तेषां प्रथमानां खलु मते 'अयं' अयं पूर्वप्रदर्शितः 'दोसे' दोषोऽस्ति अथ द्वितीयप्रतिपत्तिविषये कथयति 'तत्थ णं जे ते' इत्यादि । 'तत्थ णं' तत्र खलु प्रतिपत्ति द्वयमध्ये 'जे ते' ये ते 'एवमाहंमु' एवमाहुः-'ता' तावत् 'मंडलाओ मंडलं' मण्डलान्मण्डलं 'संकममाणे सुरिए' संक्रामन् सूर्यः 'कण्णकलं' कर्णकलं पूर्वोत्तस्वरूपं यथास्यात्तथा 'निव्वेढेइ' निर्वेष्टयति अधिकृतमण्डलं मुश्चति 'तेसि णं तेषां खलु 'अयं' अयं वक्ष्यमाणप्रकारकः 'विसेसे' विशेषः गुणः अस्ति, तमेवाह-'ता' तावत् 'जेणंतरेण' येन यावत्परिमितेन कालेन अंतरेण-अपान्तरालेन 'मंडलाओ मंडलं संकममाणे सरिए' मण्डलान्मण्डलं संक्रामन् सूर्यः 'कण्णकलं' कर्णकलं कलयाऽतिक्रान्तं मण्डलस्य प्रथमकोटिभागरूपं कर्ण यथास्यात्तथाऽधि
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy