SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्र स खलु इम लोकं तिर्यक् करोति, कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः पृथिवीकायं विश्वंसते, एके एवमाहुः-४॥ एके पुनरेवमाहुः-तावत् पौरस्त्यात् लोकान्तात् प्रातः सूर्यः पृथिवीकाये उत्तिष्ठति, स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः पृथिवीकाये अनुप्रविशति, अनुपविश्य अधः प्रत्यागच्छति प्रत्यागत्य, पुनरपि अपरभूपौरस्त्यात् लोकान्तात् प्रातः सूर्यः पृथिवीकाये उत्तिष्टति, एके एवमाहुः ।५ एके पुनरेवमाहुः तावत् पौरस्त्यात् लोकान्तात् प्रातः सूर्यः अपकाये उत्तिष्ठति स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्येलोकान्ते सायं सूर्यः अप्काये विध्वंसते, एके पवमाहु ।६। एके पुनरेषमाहुः-तावत् पौरस्त्यात् लोकान्तात् प्रातः सूर्यः अपूकाये उत्तिष्ठति, स खलु इमं लोकं तिर्यक् करोति, कृत्वा पाश्चात्ये लोकान्ते सायं सूर्यः अपकाये प्रविति, प्रविश्य अधः प्रत्यागच्छति, प्रत्यागत्य पुनरपि अपरभूपौरस्त्यात् लोकान्तात् प्रातः सूर्यः अपकाये उत्तिष्ठति, एके एवमाहुः ७१ एके पुनरेवमाहुः-तावत् पौरस्त्यात् लोकान्तात् बहूनि योजनानि, यहूनि योजनशतानि, बहूनि योजनसहस्राणि ऊर्ध्वं दुरम् उत्पत्य अत्र खलु प्रातः सूर्यः अकाशे उत्तिष्ठति, स खलु इमं दक्षिणार्ध लोक तिर्यक् करोति कृत्वा उत्तरार्धलोकं तस्यामेव रात्रौ स एव इमं उत्तरार्धलोकं तीर्यक् करोति कृत्वा दक्षिणाधलोकं तस्यामेव रात्रौ स खलु इमा दक्षिणोत्तरार्धलोको तिर्यक् कृत्वा पौरस्त्यात् लोकान्तात् वह्वनि योजनानि पनि योजनशतानि बहूनि योजनसहस्राणि ऊर्ध्व दुरम् उत्पत्य अत्र खलु प्रातःसूर्यः आकाशे उत्तिष्ठति, पके पवमाहुः ।। वयं पुनरेवं वदामः तावत् जम्बूद्वीपस्य द्वीपस्य प्राचीप्रतीच्यायतोदीची दक्षिणायतया जीवया मण्डलं चतुर्विशतिकेन शतेन छित्त्वा दाक्षिणपौरस्त्ये उत्तरपाश्चात्ये च चतुर्भागमण्डले अस्या रत्नप्रभायाः पृथिव्याः बहुसमरमणीयात् भूमिभागात् अष्टयोजनशतानि ऊर्ध्वम् उत्पत्य अत्र खल्लु प्रातः द्वौ स्यों उत्तिष्ठतः, तौ खलु इमो दक्षिणोत्तरी जम्बूद्वीपभागो तिर्यक कुरुतः, कृत्वा पौरस्त्यपाश्चात्यौ जम्बूद्वीपभागौ तस्मामेव रात्री, तो खलु इमौ पौरस्त्यपाश्चात्यौ जम्बूद्वीपभागी तिर्यक् कुरुतः, कृत्वा दक्षिणोत्तरौ जम्बूद्वीपभागौ तस्यामेव रात्रौ, तौ स्खलु इमौ दक्षिणोत्तरौ पौरस्त्यपाश्चात्यौ च जम्बूद्वीपभागौ तिर्यक् कुरुतः, कृत्वा जम्बूद्वीपस्य द्वीपस्य प्राची प्रतीच्यायतोदीचीदक्षिणायतया जीवया मण्डलं चतुर्वि शतिकेन शतेन छित्वा दक्षिणपौरस्त्ये उत्तरपाश्चात्ये च चतु. र्भागमण्डले अस्याः रत्नप्रभाया पृथिव्याः बहुसमरमणीयात् भूमिभागात् अष्ट योजनशतानि कर्ध्वम् उत्पत्य, अत्र खलु प्रातः द्वौ सूया आकाशे उत्तिष्ठतः ॥सू०१॥ ॥ द्वितीयस्य प्राभृतस्य प्रथम प्राभृतप्राभृतं समाप्तम् ॥२-१।। व्याख्या-'ता' तावत्-प्रथमप्रष्टव्यप्रभूते विषये सत्यपि प्रथममेतावदेव. पृच्छामि. यत् 'कह' कथं केन प्रकारेण 'ते' भवतो मते 'तिरिच्छगई' तिर्यग्गतिः तिर्यक्तया परिभ्रमण सूर्यस्य 'आहिता' आख्यता ? 'इति वदेज्जा' इति वदेत् वदतु हे भगवन् !, गौतमेन एवं पृष्टें' भगवन् प्रथममेतद्विषये परतीर्थिकमिथ्याभावोपदर्शनाय तेषां मान्यतारूपा अष्टप्रत्तिपत्तीः प्रदर्शयति. 'तत्थ खलु' इत्यादि । 'तत्थ' तत्र सूर्यस्य तिर्यग्गतिविषये खलु 'इमाओ' इमाः वक्ष्यमाणाः
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy