SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिसूत्रे भवइ' अष्टादशमुहूत्तों दिवसो भवति, तथा 'दुवालसमुहुत्ता राई भवइ' द्वादशमुहूर्ता रात्रिर्भवति इदं सूत्रोक्तमायामविष्कम्भपरिमाणं कथं लभ्यते इति प्रदर्शयामः, तथाहि-सर्वाभ्यन्तरमण्डलमेकतोऽशीत्यधिकमेकं शतं (१८०) जम्बूद्वीपमवगाह्य स्थितम् एवमपरतोऽपि-अशीत्यधिकमेकं शतं (१८०) जम्बूद्वीपमवगाह्य स्थितमिति तयोःसमेलने जातं षष्टयधिकं शतत्रयम् (३६०) एषा संख्या लक्षयोजनरूपज्जम्बूद्वीपपरिमाणम् शोध्यते ततो जातं यथोक्तपरिमाणमायामविष्कम्भयोः चत्वारिंशदधिकषट् शतोत्तरनवनवतिसहस्रयोजनपरिमितम् (९९६४०)। परिक्षेपपरिमाणानयनं यथा सर्वाभ्यन्तरमण्डलस्य विष्कम्भो नवनवतियोजनसहनाणि चत्वारिंशदधिकपट्शतोत्तराणि (९९६४०) अस्याः संख्याया वर्गो विधीयते जातः सः नवनवति. अष्टाविंशतिः, द्वादश, पण्णवतिः, द्वे च शून्ये (९९२८ १२९६००) हत्येवं रूपः, ततो दशभिर्गुणने एकशून्याधिका पूर्वोक्ता संख्या (९९२८१२९६०००), अस्या वर्गमूलानयने लब्धं यथोक्तं त्रीणि लक्षाणि नवाशीत्यधिक पञ्चदशसहस्रोत्तराणि(३१५०८९) परिक्षेपपरिमाणमिति, शेषं द्वेलक्षे एकोनाशीत्यधिकाष्टादशसहस्रोत्तरे (२१८०७९) एतावत्प्रमाणं स्थितं तत्त्यक्तमिति भगवन्मतं केवळालोकालोकितत्वेन समीचीनं सिद्धमिति । 'से' सः 'णिक्खममाणे' निष्क्रामन् 'सरिए' सूर्यः 'णवं संवच्छरं अयमाणे नवं संवत्सम् अयन् प्राप्नुवन् सन् 'पढमंसि अहोरत्तंसि' प्रथमेऽहोरात्रे 'अभितरोणंतरं मंडलं' अभ्यन्तरमण्डलादनन्तरं स्थितं द्वितीय मण्डलम् 'उपसंकमित्ता चारं चरई' उपसंक्रम्य चारं चरति 'ता' तावत् 'जया णं' यदा खल 'रिए' सूर्यः। 'अभितराणतरं मंडलं' आभ्यन्तरानन्तरं सर्वाभ्यन्तरानन्तरंद्वितीयं मण्डलम् 'उवसंकमित्ता चारं चरइ' उपसंक्रम्य चारं चरति 'तया णं तदा खल 'सा सव्वा वि मंडलवया' तानि सर्वाण्यपि मण्डलपदानि प्रत्येकम् 'अडयालीस एगसट्ठिभागा जोयणस्स' अष्टचत्वारिंशद् एकषष्टिभागा योजनस्य 'बाहल्लेणं' बाहल्येन वर्त्तन्ते, तथा 'णवणवइजोयणसहस्साई' नवनवतियोजनसहस्राणि 'छच्च पणताले जोयणसयाई षट्च पञ्चचन्वारिंशद् योजनशतानि पणतीसं च एगसद्विभागा जोयणस्स' पञ्चत्रिंशच्च एकषष्टिभागा योजनस्य (९९६४५ ३५/६१) 'आयामविक्खंभेणं' आयाभविष्कम्भेण सन्ति तथा 'तिण्णि जोयणसयसहस्साई' त्रीणि योजनशतसहस्राणि 'पण्णरसं च सहस्साई' पञ्चदश च सहस्राणि 'एगं सत्तुतरं जोयणसयं' एक सप्तोत्तरं योजनशतम्-सप्तोत्तरशताधिकपञ्चदशसहस्रोत्तरलक्षत्रयम् (३१५१०७) 'किंचिविसेसूर्ण' किञ्चिद्विशेषोनं किञ्चिद् त्रयोविं. शत्येकषष्टिभागहीनत्वात् । व्यवहारनयमतेन लोकेऽपि किञ्चिन्यूनसंख्याया अपि परिपूर्णत्वेन विवक्षा लभ्यते । निश्चयनयमतेन तु एतावती संख्या भवति तथा च (३१५१०६-३८६१) इति एतावत्परिमितानि सर्वाण्यपि मण्डलपदानि परिक्खेवेणं' परिक्षेपेण परिधिना वर्तन्ते। अत्र यत् 'किंचिविसेसूर्ण' इति कथितं तत् अन्तिमाङ्कसप्तसख्यायाः परिपूर्णाभावात् कथितम् । 'तया णं'
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy