SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाशिका टोको प्रा० ६-८ सू० १४ मण्डलपदानां प्रमाणनिरूपणम् ८३ रेकषष्टिभागामुहूर्तरूनः, द्वादशमुहर्ता रात्रिर्भवति चतुर्भिरेकपष्टिभागमुहूर्तरधिका । एवं खलु पतेन उपायेन निष्क्रमन सूर्यः तदनन्तरात् मण्डलात् तदनन्तरं मण्डलम् उपसंक्रामन् २ पञ्च योजनानि पञ्चत्रिंशच्च एकपष्टिभागा योजनस्य एकैस्मिन् मण्डले विष्क म्भवृद्धिम् अभिवर्धयन् २ अष्टादश योजनानि परिरयवृद्धिम् अभिवर्धयन् २ सर्ववाहां मण्डलम् उपसंक्रम्य चारं चरति । तावत् यदा खलु सूर्यः सर्ववाह्य मण्डलम् उपसंक्रम्य चार चरति तदा खलु तानि सर्वायपि मण्डलपदानि अष्टचत्वारिंशद् एकपष्टिभागा योजनस्य वाहव्येन, एकं योजनशतसहन्नं पट् पष्टिः योजनशतानि आयामविष्कम्भेण, त्रीणि योजनशतसहस्राणि अष्टादशसहस्राणि त्रीणि च पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण, तदा खलु उत्तमकाण्ठाप्राप्ता उत्कर्पिका अष्टादशमुहर्ता गत्रिर्भवति, जघन्यकः द्वादशमुहत्तों दिवसो भवति । एपा खलु प्रथमा पणाली । एतत् खलु प्रथमायाः पण्मास्या पर्यवसानम् ॥१४॥ व्याख्या-'ता' तावत् ' 'सव्वा विणं' सर्वाण्यपि खल 'मंडलवया' मण्डलपदानि मण्डलरूपाणि पदानि सूर्यमण्डलस्थानानीत्यर्थः 'केवइयं कियत्कानि कियत्प्रमाणानि 'बाहल्लेणं' वाहल्येन स्थौल्येन तथा 'केवइयं कियाकानि कियत्प्रमाणानि 'आयामविक्खंभेणं' आयामविष्कम्भेण' आयामः दैय विष्कम्भः विस्तारः तयोः समाहारे यामविष्कम्भ, तेन आयामविष्कम्भे त्यर्थः दैर्येण विस्तारेण च कियत्प्रमाणानि सर्वाण्यपि मण्डलपदानीति भावः, तथा 'केवइयं' कियत्कानि कियत्प्रमाणानि परिक्खेवेणं' परिक्षेपेण परिधिना, कियत्प्रमाणा तेषां परिधिरिति भावः आहिता' आख्यातानि कशिनानि तीर्थंकरैः 'इति' इति-एतद्विषयं 'वदेज्जा' वदेत् वदतु कथयतु हे भगवन् इति गौतमस्य प्रश्नः । भगवानाह-'तत्थ' तत्र खलु निश्चयेन 'इमा' इमा वक्ष्यमाणाः 'तिण्णि' तिम्रः 'पडिवत्तीओ' प्रतिपत्तयः परमतरूपाः 'पण्णत्ताओ' प्रज्ञप्ताः कथिता अन्यैरन्यैस्तीर्थान्तरीयैरिति, 'तं जहा' तद्यथा-ता यथा-'तत्व' तत्र तिसृषु प्रतिपत्तिपु. मध्ये 'एगे' एके केचन प्रथमास्तीर्थान्तरीयाः ‘एवं वक्ष्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति । किमाहुरित्यत्राह-'ता' इत्यादि 'ता' तावत् 'सव्वावि णं' सर्वाण्यपि खलु 'मंडलवया' मण्डलपदानि, 'मंडलवया' इति सूत्रे स्त्रीत्वं प्राकृतत्वात् , तानि सर्वाण्यपि मण्डलपदानि प्रत्येकं 'जोयणं' योजनमेकं 'वाहल्लेणं' बाहल्येन स्थौल्येन, तथा 'एगं जोयणसहस्सं' एक योजनसहनम् एक सहस्रयोजनम्, 'एग' एकं 'तेत्तीसं' त्रयस्त्रिंशत् 'जोयणसर्य' योजनशतम् , त्रयस्त्रिशदधिकमेकं शन योजनानाम् 'आयामविक्खंभेणं' आयाभविष्कम्मेण दैर्ध्यविस्तारेण, 'तिष्णि जोयणसयसहस्साई त्रीणि योजनशतसहस्राणि सहनत्रययोजनानि 'तिणि य नवनवईजोयणसयाई त्रीणि च नवनवनियोजनशतानि नवनवत्यधिकशतत्रय योजनानां परिक्खेवेणं' परिक्षेपेण परिधिना 'पण्णत्ता' प्रज्ञप्तानि कथितानि मण्डलपदानि । उपसंहारमाह-एगे एवमाहंसु' एके केचन प्रथमाः एवं पूर्वोक्तप्रकारेण आहुः-कथयन्तीति प्रथमा प्रतिपत्तिः ॥१। एपामेवं कथनं मिथ्याभावगर्भितं वर्तते, कथमित्याह-एपां प्रथमास्तीर्थान्तरीया स्वमते आयामविष्कम्भप्रमाणं
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy