SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे सूत्रम् — जे भिक्खू उउवद्धियं वा वासावासियं वा सेज्जासंथारगं उच्चरिसिज्जमाणं पेहाए न ओसारेइ न ओसारेंतं वा साइज्जइ ॥ सू० ५२॥ ७२ छाया -यो भिक्षु ऋतुवद्धकं वा वर्षावासिकं वा शय्यासंस्तारकं उद्वर्ण्यमाणं प्रेक्ष्य नाऽपसारयति, नाऽपसारयन्तं वा स्वदते ॥ सु० ५२ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'उउवद्धियं वा' ऋतुबद्धकं वामार्गशीर्षाचा पाढपर्यन्ताष्टमासात्मके काले स्वेनात्मना परेण वा गृहीतम् । 'वासावासियं वा' वर्षावासिकं वा चातुर्मास सम्बन्धिकम्, उपभोगाय वर्षाकाले समानीय स्ववसतौ स्थापितम् । 'सेज्जासधारणं' शय्यासंस्तारकं पीठफलकतृणादिकमनावृतस्थाने प्रसारितं 'उच्चरि सिज्जमाणं' उद्व माणं घृष्ट्या विद्यमानं जलेन आदभवन्तमित्यर्थः ' पेहाए' प्रेक्ष्य - दृष्ट्वा 'न भसारइ' नाडपसारयति - न दूरीकरोति, अनावृतप्रदेशादावृतप्रदेशे न करोति, न कारयति 'न ओसारेंतं वा साइज्जर्' नाऽपसारयन्तं-नोऽन्तः कुर्वन्तं स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ सू० ॥ ५२॥ अत्राह भाष्यकारः- भाष्यम् - वासाज लेण सितं, सेज्जासंथारगं च पीढाइ । नो ओसारह जो उ, पावइ सो आणभंगाइ ॥ छाया - वर्षाजलेन सिक्तं शय्यासंस्तारकं च पीठादि । नो अपसारयति यस्तु प्राप्नोति स आज्ञाभङ्गादि ॥ अवचूरि : - 'वासाजलेणं' - इत्यादि । यो भिक्षुः ऋतुबद्धकाले वर्षाकाले वा अनावृतस्थाने प्रसारितं यत् शय्यासंस्तारकं पीठादि- पीठफलकतृणादिकं तद्यदि वृष्टिजलेन सिक्तं मियमानं वा भवेत् तत् नाऽपसारयति नो दूरीकरोति वर्षाप्रदेशात् वर्षारहितप्रदेशे - वसतेरन्तभांगे न करोति यः स आनाभङ्गादिदोपान् प्राप्नोति ॥ सू० ५२ ॥ सूत्रम् — जे भिक्खू पाडिहारियं सेज्जासंथारगं दोच्चंपि अणणुण्णवेत्ता चाहिं णी णातं वा माइज्जइ ॥ सृ० ५३ ॥ छाया - यो भिक्षुः प्रातिहारिकं शय्यासंस्तारकं द्विवारमपि - अननुज्ञाय्य वहिः निर्णयति निर्णयन्नं वा स्वदवे || सू० ५३ ॥ चूर्णी - 'जे भिक्यू' इत्यादि । 'जे भिक्खू' यो भिक्षु: 'पाडिहारियं' प्रातिहारिकम् श्रावकगृहात्तस्य गृहपतेराज्ञया समानीय वसतौ स्थापितं - पुनः प्रतिज्ञातसमये प्रत्यर्पणीयम्
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy