________________
निशोथसूत्रे
अत्र शिष्यः प्राह---यथेवं तदा भावपरुषमेव वक्तव्यम् द्रव्यादिषु परुषत्वं कथं कथ्यते ! आचार्यः प्राह--द्रव्यादिपु - उपचारकरणमात्रम् यतस्ते क्रोधादयो द्रव्यादिसमुत्थिता एव भवन्ति, तथा च क्रोधादौ भावे मुख्यं परुपत्वम्, क्रोधादिकारणे, तु द्रव्यादौ - उपचारात् परुषत्वं भवति । यः साधुरेतेषामन्यतमं परुषमीपदपि वदति, स आज्ञाभङ्गानवस्थात्मसंयमविराधनं प्राप्नोति तथा-मिथ्यात्वं च समापद्यते अतः साधुभिरेतादृशं परुषवचनं न वक्तव्यम् ॥ सू० १८ ॥
सूत्रम् — जे भिक्खू लहुस्सगं मुखं वयइ वयंतं वा साइज्जइ ॥ सू० १९ ॥
छाया - -यो भिक्षुर्लघुस्वकं मृषा वदति वदन्तं वा स्वदते ॥ सू० १९ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'लहुस्सगं' लघुस्वकं स्तोकमल्पमपि, ‘म्रुसं’ मृषाऽसत्यवचनम् 'वयम्' वदति-अल्पमप्पसत्यभाषणं करोतीत्यर्थः, 'वयंतं वा साइज्जइ' वदन्तं वा स्वदतेऽनुमोदते स प्रायश्चितभाग् भवति, तस्याज्ञाभङ्गादिदोषा भवन्ति ॥ सू० १९ ॥ अत्राह भाष्यकारः -- 'दव्वे' इत्यादि ।
भाष्यम् - दव्वे खेत्ते तहा काले, भावे यत्ति चउन्विहा । जहासत्थं मुसाभासा, तीए भेया- जहक्कमं ॥
छाया - द्रव्ये क्षेत्रे तथा काले भावे चेति चतुर्विधा ।
यथाशास्त्रं मृपाभाषा तस्या भेदा यथाक्रमम् ॥
अवचूरि:- मृपाभाषा असत्यभाषणं, यथाशास्त्रं शास्त्रोक्तप्रकारेण चतुविधा चतुष्प्रकारा भवतीति ज्ञेया । तथा - तस्या मृषाभाषाया भेदा यथाक्रमं आनुपूर्व्या क्रमेणेत्यर्थः, ज्ञातव्या इति । तत्र द्रव्ये - वस्त्रपात्रादिपु, क्षेत्रे - संस्तारकवसतिप्रभृतिपु, काले- अतीतेऽनागते वर्त्तमाने च भापादिषु । तत्र - द्रव्ये यथा - वस्त्रे पात्रं सहसा वदेत्, पुनरेवं वदेत्-नेदं तव किन्तु ममेदं वस्त्रं पात्रं वेति द्रव्यभूतोऽनुपयुक्त एव वदेत् ।
स्मथवा-- वस्त्रं पात्रं वा परेण समुत्पादितम् परन्तु -- अनानीतमपि पृष्टः सन् एतत्सर्वं वस्त्रपात्रादिकं मयाऽऽनीतम्, एवं क्रमेण द्रव्ये मृषा वदति । एवं क्षेत्रे यथा-- रजन्यां तमसावृतायां संमूढः परस्य संस्तारकादिकं ममेदमिति ज्ञात्वा त्वमितो निःसरेति मृपा वदति । यद्वा-मासकल्पप्रायोग्यं वा वर्षावासप्रायोग्यं वा वसत्यादिकं ऋतुकालप्रायोग्यं वाऽन्येनोत्पादितं मयोत्पादितमित्येवं वदति, एपा क्षेत्रविपये मृषाभाषा । काले-- मृषावादो यथा - एकः कश्चित् श्रद्धाशील एकेन साधुना उपशामितः, तदनु-- अन्येन साधुना पृष्टः - केन श्रमणेनायं श्रावक उपशामितः ? तदा कथयति परः साधुः - अन्यदा कदाचिद् विहरता सता मयैप श्राद्ध उपशामितः । एवं भावेऽपि -- कषायवशेन वदतीति ज्ञातव्यमिति । एतेषां द्रव्यक्षेत्रादिभेदभिन्नानां मध्यात्--अन्यतममपि मृपावादं वदति तस्य भिक्षुकस्याऽऽज्ञाभङ्गानवस्थामिध्यात्वसंयमात्मविराधनादयो दोपा भवन्तीति ॥ सू० १९ ॥
કર