SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ३९४ निशीथचे चूर्णी --'जे भिक्खु इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'उस्सेइम वी' उत्सेकिमं वा-वाष्पितगोधूमपिष्टतिलादि येन जलेन सिच्यते-धाव्यते तज्जलम्, अथवा-येन जलेन पिष्टकाटिसंश्लिष्टं पात्रम् 'कठौती' तिलोकप्रसिद्ध प्रक्षाल्यते तज्जल वा 'संसेइमं वा' संसेकिम वा वाष्पितवास्तुकतन्दुलीयकादिपत्रशाकं संसिच्यते तज्जलम् । 'चाउ लोदगं वा तण्डुलोदकं वा तण्डुलधावनजलं येन जलेन तण्डुला धाव्यन्ते पाकात्पूर्व तादृशं जलम् 'चारोदगं वा' वारोदकं वा-वारः घटः येन जलेन गुडादिघटः प्रक्षाल्यते तादृशं जलं वारोदकमिति कथ्यते 'तिलोदगं वा' तिलोदकं वा-तिलधावनजलम् 'तुसोदगं वा' तुषोदकं वा-तुपधावनजलम् ब्रोह्यादिप्रक्षालितजलमित्यर्थः 'जवोदगं वा' यवघावननलं येन जलेन यवाः प्रक्षाल्यन्ते तादृश जलमित्यर्थः, 'आयाम चा' आचामं वा अवनावणं सिद्धतण्डुलनलम्, अथवा उष्णलौहं यस्मिन् जले शीतलीक्रियते तादृशं जलमाचाममिति कथ्यते 'सोवीरं वा' सौवीर वा काजिकजलमित्यर्थः 'अंबकंजिय वा' आम्रकाजिकं 'मुद्धवियडं वा' शुद्धविकटं वा शुद्धम् उष्णं जलम्, एतादृशं सर्वं पानकजातम् यदि 'अहुणाधोयं अधुनाधौत-तत्कालधौतम् 'अणंविलं' अनाम्लम् यस्य रसम् आम्लं न जातं भवेत् 'अपरिणयं' अपरिणतम् --शस्त्रापरिहतम् 'अवुकंतजीव' अत्युत्क्रान्तजीवम्-अव्युत्क्रान्ता अनपगताः जीवा यस्मात् तत् तथा, जीवेनाविप्रमुक्तं सचेतनं मिश्रं वेत्यर्थः अविद्धत्थं' अविध्वस्तम् यत् वर्ण-गन्ध-रस-स्पर्शन विध्वस्तम्-वर्णादिभ्यो न चलितं तत् स्वभावावस्थमित्यर्थः, एतादृशं पूर्वोक्तविशेषणविशिष्टं जलं भवेत्तज्जलं यः श्रमणः श्रमणी वा 'पडिग्गाहेई' प्रतिगृह्णाति-दीयमानं स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वीकुर्वन्तं श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५० ॥ सूत्रम्-जे भिक्खू अप्पणो आयरियत्ताए लक्खणाई वागरेइ वागरेतं वा साइज्जइ ।। सू० २५१ ॥ छाया-यो भिक्षुरात्मन आचार्यतायै लक्षणानि व्याकरोति व्याकुर्वन्तं वा स्वदते चूर्णी- जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अप्पणो आत्मन. स्वस्य 'लक्खणाई' लक्षणानि-करचरणस्थानि चक्राकुशादीनि, तथा स्वदेहस्य मानोन्मान-प्रमाण-संस्थान-सहननादीनि वा 'आयरियताए' आचार्यतायै-स्वस्याचार्यपदप्राप्त्यर्थम् 'वागरेइ' व्याकरोति-अन्यस्मै कथयति, चक्राङ्कशतिलमशादिविपये एवं कथयति-यानि आचार्यस्य लत्रणानि भवन्ति तानि मम शरीरेऽपि लभ्यन्ते तेनाहमाचार्यों भविष्यामीति । कथनप्रकारो यथा "अमुगायरियसरिच्छाई लक्खणाई णं पासह महंपि । एरिसलक्खणजुत्तो, य होइ अचिरेण आयरिओ" ॥१॥
SR No.009348
Book TitleNishith Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages541
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_nishith
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy